SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६८ जयन्तीप्रकरणवृत्तिः । गाथा २३ हारार्द्धहारौ-अष्टादशनवसरिको, एकावली-विचित्रमणिका, मुक्तावलीमुक्ताफलमयी, कनकावली-कनकमणिमयी, कटकानि-कलाचिकाभरणानि, योगोयुगलं, तुटिका-बाहुरक्षिका, क्षौमं कासिकं, पटकं-त्रसरीमयं, पढें-पट्टसूत्रमयं, दुकूलं दुकूलाभिधानवृक्षवल्कनिष्पन्नं । श्रीप्रभृतयः-षड् देवताप्रतिमाः संभाव्यन्ते । नन्दादीनां 5 लोकतोऽर्थोऽवसेयः । अन्येप्याहुः-नंदनं वृत्तं लोहासानं, भद्रं-शरासनं चूटक इति यत्प्रसिद्धं । तल्ल त्ति अस्यैव पाठः-अट्ठतले तलप्पवरे सव्वरयणमए तियगवरभरणकेऊ, ते च तालवृक्षाः संभाव्यन्ते, ध्वजा:-केतवः, वय त्ति-गोकुलानि दशसाहस्रिकेण गोव्रजेनेत्यादि दृश्यं । नाडय त्ति-बत्तीसबद्धेण नाडगेणमिति दृश्यं, द्वात्रिशं बद्धं द्वात्रिंशताबद्धमिति व्याख्यातारः । अस्स त्ति-आसवरे सव्वरयणमये 10 सिरिघरपडिरूवे, श्रीगृहं-भाण्डागारं । एवं हस्तिनोऽपि । यानानि-शकटादीनि, युग्यानि गोल्लविषये प्रसिद्धानि, जंपानानि-द्विहस्तप्रमाणानि-चतुरस्राणि वेदिकोपशोभितानि, शिबिकाकूटाकारणाच्छादिता, स्यन्दमानिका-पुरुषप्रमाणायामा । जंपानविशेषाः गिल्लयः, हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीति, लाटानां यानि अनुपल्यानानि तान्यन्यविषयेषु थिल्लीओ अभिधीयन्ते । रहं ति-साङ्ग्रामिकाः पारियामिकाश्चाष्टाष्टौ, तत्र सङ्ग्रामरथानां 15 कटीप्रमाणा फलकवेदिका भवति, । वाचनान्तरे रथान्तरमश्वा हस्तिनश्चाभिधीयन्ते, तत्र ते वाहनभूता ज्ञेयाः । द्विशतकुलसाहस्रिको ग्रामः । तिविहदीव त्ति-त्रिविधा दीपाः, अवलम्बनदीपा:-शृङ्खलाबद्धाः, उत्कञ्चनदीपा:-उर्ध्वदण्डवन्तः, पञ्जरदीपा:अभ्रपटलादिपञ्जरयुक्ताः, त्रयोप्येते त्रिविधाः, स्वर्णरूप्यतदुभयत्वादिति । एवं स्थालादीनि सौवर्णादिभेदादिति त्रिधा वाच्यानि । कइविका-कलाचिका, भिसिया-आसनविशेषाः, 20 करोटिका-कामरिका, स्थगिका धारिका द्रविका परिहासकारिका । शेषं रूढितो ज्ञेयं । ___ अइनिच्चलपाएणं चित्तं अजलासएण ठाणेण । अभयप्पयाणकप्पियखमारुहो महरिहो एसो ॥८०६।। किं बहुणा मेहकुमारो अभयप्पयाणपुन्नेहिं हुंतकल्लाणो । दोगुंदु व्व देवो गयं पि कालं न याणेइ ।।८०७।। इत्थंतरम्मि भयवं वीरजिणिंदो नमंतसरविंदो । रायगिहे गुणसिलए बहिरुज्जाणे समोसरिओ ॥८०८॥ उज्जाणपालएणं विणयप्पणएण सेणिओ राया । वद्धाविओ सहरिसं वीरजिणगमणकहणेणं ॥८०९॥ 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy