________________
परिशिष्टम् - १८, पञ्चक्रियास्वरूपम्
परिशिष्टम्-१८ [एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः' इति श्रीध्यानशतके गाथा-५० वृत्तौ टीकाकारमहर्षिणा ज्ञापितम् । तस्मादत्र प्रतिक्रमणाध्ययनवृत्तिगतं पञ्चक्रियायाः स्वरूपमृद्धृतम् । - सम्पा० ।] पडिक्कमामि पंचहि किरियाहिं - काइयाए, अहिगरणियाए, पाउसियाए, पारितावणियाए, पाणाइवायकिरियाए।
वृ.- प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा- 'काइयाए' इत्यादि,
१ - चीयत इति काय:, कायेन निर्वृत्ता कायिकी तया, सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी [च], तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिका-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य, सा पुनर्द्विधा- इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्यइष्टानिष्टविषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाऽप्रमत्तसंयतस्य-उपरतस्य - सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी ।
२ - अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता -अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमह:पशुबन्धादिप्रवर्तिनी, निर्वतिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गताऽधिकरणिकी ।
३ - प्रद्वेषः-मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी तया, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्राद्वेषिकी च, आद्या जीवे प्रद्वेषं गच्छतः, द्वितीया. पुनरजीवे, तथाहि- पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति, गता तृतीया ।
४ - परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैवस्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वत: द्वितीया परहस्तेन कारयतः, गता चतुर्थी ।
५ - प्राणातिपात:- प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा-स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाद्यर्थं वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिर्हालितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचक: स्मार्तो वा याग इति, गता पञ्चमी ।
क्रियाऽधिकाराञ्च शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विंशतिः क्रियाः प्रदर्श्यन्ते, तंजहा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org