________________
१५१
शुक्लध्यानेऽनुप्रेक्षाः Pararerakarareratureranarararekarararararatarutakarakarakararelatakarakarate
“आगमश्चोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ।।१।।" [दशवैकालिकचूर्णी, पृ.१३७] इत्यादि गाथाद्वयार्थः ।।८५-८६।।
उक्तं ध्यातव्यद्वारम्, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते -
सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि ।
णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो ।।८७।। सुक्क० गाहा ॥ शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः ।।८७ ।। ताश्चैताः
आसवदारावाए तह संसारासुहाणुभावं च ।। भवसंताणमणन्तं वत्थूणं विपरिणामं च ।।८८।।
[१]A मू. चतारि झाणा पं० x x x सुक्कस्स णं झाणस्स चतारि अणुप्पेहाओ पं० तं. अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा ।।।
-स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. xxx अथ तदनुप्रेक्षा उच्यन्ते- 'अणंतवत्तियाणुप्पेह' त्ति अनन्ता-अत्यन्तं प्रभूता वृत्तिः
वर्त्तनं यस्यासावनन्तवृत्तिः अनन्ततया वा वर्त्तत इत्यनन्तवर्ती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्ततितानुप्रेक्षा वेति, यथा"एस अणाइ जीवो संसारो सागरोव्व दुत्तारो । नारयतिरियनरामरभवेसु परिहिंडए जीवो ।। १ ।।" इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामेत्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति, गम्यते, यथा"सव्वट्ठाणाइं असासयाइं इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाइं च ।। १ ।।" 'असुभे'त्ति अशुभत्वं संसारस्येति गम्यते, यथा"धी संसारो जंमि(मी)जुयाणओ परमरूवगवियओ । मरिऊण जायइ किमी तत्थेव कडेवरे नियए ।। १ ।।" तथा अपाया आश्रवाणामिति गम्यते, यथा"कोहो य माणो य अणिग्गहीया. माया य लोभो य पवङ्कमाणा ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org