________________
१५०
ध्यानशतकम्, गाथा-८६ Pakstantansistarskasmnnarssnratnakararakarsanarassnurstan
चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति ।
जीवोवओगसब्भावओ भवत्थस्स झाणाई ।।८।। पुच० गाहा ।। चित्त० गाहा ।। काययोगनिरोधिनो योगिनोऽ योगिनो वा चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः । यथा तच्चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावाद्भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः ।
विशेषस्तूच्यते - कर्मविनिर्जरणहेतुतश्चापि कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, अतो भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चशब्दः प्रस्तुतहेत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति तथा शब्दार्थबहुत्वाद् यथैकस्यैव हरिशब्दस्य शक्र-शाखामृगादयोऽनेकेऽर्थाः एवं ध्यानशब्दस्यापि, न विरोधः, “ध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे" इत्यादि। तथा जिनचन्द्रागमाञ्चैतदेवमिति, उक्तं च -
तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो ध्यानम् । यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यानम्, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते । भवति ह्यस्य भवोपग्राहिकर्मनिर्जरा । अथवा शब्दार्थबहुत्वाद् ध्यानम्, यथा 'हरि'शब्दस्य अर्क-मर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि । तथाहिध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे । वदन्ति हि“निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। १ ।।" [ ] इति । जिनागमाद्वाऽयोगिनोऽपि ध्यानम् । यदाह“आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ।। १ ।।" [ ] इति ।। १२ ।।
- योगशास्त्रे प्र. ११ ।। प्रथमहेतुरिति पूर्वप्रयोगलक्षणः ।
- ध्यानशतकवृत्ति-विषमपदपर्याये ।।
*
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org