________________
ध्यानशतकम्, गाथा-१ aakarshakakakakakaki
किंविशिष्टमिति ? अत आह - शुचं लमयतीति शुक्लम् शोकं ग्नुपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः, तथा मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगैः क्रियते इति कर्म ज्ञानावरणीयादि, तदेवातितीव्रदुःखानलनिबन्धनत्वादिन्धनं कर्मेन्धनम्, ततश्च शुक्लध्यानाग्निना दग्धं स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तम्। प्रणम्य प्रकर्षेण मनोवाक्काययोगैर्नत्वेत्यर्थः, किम् ? समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात्, ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनम्, 'कर्मणि ल्युट' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनम्, तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिर्धास्ये । २] मू. मिथ्यादर्शनाऽविरतिप्रमादकषाययोगा बन्धहेतवः ।। ८-१ ।।
भा. मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र
सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम्। तद् द्विविधम्- अभिगृहीतमनभिगृहीतं च । तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्ठीनां कुवादिशतानाम्, शेषमनभिगृहीतम् । यथोक्ताया [हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम्।। ७-१ ।।] विरतेविपरीताऽविरतिः। प्रमादः - स्मृत्यनवस्थानम्, कुशलेष्वनादरो योगदुष्पणिधानं चेत्येष प्रमादः । कषाया मोहनीये [अ. ८, सू. १०] वक्ष्यन्ते। योगस्त्रिविधः पूर्वोक्तः [कायवाङ्मनःकर्म योग: ।। ६-१ ।।]
- तत्त्वार्थसूत्रे ।। ३] A कम्मं च चित्तपोग्गलरूवं जीवस्सऽणाइसंबद्धं । मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं ।। ५४ ।।
-योगशतके ।। B सिरिवीरजिणं वंदिय, कम्मविवागं समासओ वुच्छं ।
कीरइ जिएण हेऊहिं जेण तो भण्णए कम्मं ।। १ ।। वृ. x x x तत्र कर्मशब्दं व्युत्पादयन्नाह क्रियते विधीयतेऽञ्जनचूर्णपूर्णसमुद्गकवनिरन्तरपुद्गलनिचिते लोके
क्षीरनीरन्यायेन वह्नययःपिण्डवद्वा कर्मवर्गणाद्रव्यमात्मसम्बद्धं येन कारणेन ततस्तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । x x x कैः कृत्वा जीवेन क्रियते ? इत्याह-हेतुभिर्मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः, “पडिणीयत्तण निन्हव, उवघाय पओस अंतराएण । अञ्चासायणयाए, आवरणदुर्ग जिओ जयइ ।।" इत्यादिभिर्विशेषप्रकारैरिहैव [गा. ५३] वक्ष्यमाणैः । तदयमत्र तात्पर्यार्थ:-क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । xxx ।। १ ।। -प्रथमकर्मग्रन्थे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org