________________
याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणि-श्रीमद्धरिभद्रसूरिविरचितवृत्त्या समन्वितं
भगवच्छ्रीमद् जिनभद्रगणिक्षमाश्रमणविरचितं
ध्यानशतकम् ।
*ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह -
वीरं सुक्कज्झाणग्गिदड्डकम्मिंधणं पणमिऊणं ।।
जोईसरं सरण्णं झाणज्झयणं पवक्खामि ।।१।। वीरं० गाहा ।। वीरं शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः। तत्र 'ईर गति-प्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरम् ।।
प्रतिक्रमामि चतुभिर्ध्यानः कारणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा- आर्तध्यानेन ४,तत्रध्यातिर्ध्यानमिति भावसाधनः, तत्पुन: कालतोऽन्तर्मुहूर्तमात्रम्, भेदतस्तुचतुष्प्रकारमादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसम्प्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमार्तं तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादि लक्षणं धर्म्यं तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन । फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः। व्यासार्थस्तु ध्यानशतकादवसेयः, तञ्चेदम्- ध्यानशतकस्य च महार्थत्वाद्वस्तुत: xxxii
-आव. नि. हा. ।। PA विशेषेण ईरयति क्षिपति कर्माणीति वीरः,
'विदारयति यत् कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ।।' इति लक्षणानिरूक्ताद्वा वीरः । xxx.
-योगशास्त्र, प्र. १ वृत्तौ ।। B 'शूर वीर विक्रान्ती' कषायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः,
-यदि वा 'ईर गतौ' कियत्क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति-क्षपति-तिरस्करोत्यशेषाण्यपि कर्माणीति
वीरः, -अथवा विशेषत ईरयति-शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः, -यदि वा विशेषत: शिवपदं स्वयमियति-गच्छतीति वीरः, -अथवा 'दृ-विदारणे' विदारयति कर्मरिपुसंघट्टमिति वीरः, -अनन्यानुभूतमहातपःश्रिया वा विराजत इति वीरः, -अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्यं व्यापारयतीति वा वीरः, उक्तं च- “विदारयति यत्कर्म तपसा च विराजते ।
तपोवीर्येण युक्तश्च तस्माद वीर इति स्मृतः ।।" xxx ।। १०५७ ।। -विशेषा. हेम
त्ता
।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org