________________
श्रीधर्मविधिप्रकरणम् कर्कशो-रूक्षो, घनो-निबिडो, रूढी-निष्पन्नो, गूढो-गुपिलः, स चासौ कर्मग्रन्थिश्चेति, तद्वज्जीवस्य कर्मजनित:-कर्मोत्पन्नो घनरागद्वेषपरिणामः कोऽर्थः ? यथा वल्कादिनिष्पन्नः कश्चित्तथाविधो निबिडग्रन्थिर्दुब्र्भेदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिनिबन्धकोऽनन्तेनापि कालेन जीवैर्न भिन्नः स इह 5 ग्रन्थि यः ॥१२॥
तद्भेदानन्तरं यल्लभते तदेवाहकाऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपहुत्ते, कम्माण-मवगए देसविरयाई ॥१३॥
व्याख्या-ग्रन्थिभेदं कृत्वा सम्यक्त्वं-सम्यक्तत्त्वश्रद्धानरूपं अनिवृत्तिनाम्ना 10 तृतीयकरणेन जीवः प्राप्नोति ततश्च कर्मणां पल्योपमपृथक्त्वे-द्विप्रभृतिरानवभ्य इति रूढ्या प्रसिद्धेऽपगते-ऽतिक्रान्ते सति देशविरत्यादीन् प्राप्नोति ॥१३॥
तत्प्राप्तौ यद्विधेयं तत् सदृष्टान्तमाहधम्मं अलद्धपुव्वं, सणजुत्तं सुदुल्लहं लहिउं ।
राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा ॥१४॥ 15 व्याख्या-धर्मं देशविरत्यादिरूपमलब्धपूर्वं, दर्शनयुक्तं-सम्यक्त्वसहितं,
सुदुर्लभं-दुःप्रापं लब्ध्वा-प्राप्य किं कुर्यादित्याह-उदायनराजवत् सदा-सर्वकालं विशुद्धबुद्ध्या-निर्मलपरिणामेन धारयेत्-बिभृयादिति गाथार्थः ॥१४॥ भावार्थः कथानकगम्यः, स चायम्
अत्थिह जंबुद्दीवे भारहखित्तस्स दाहिणे खंडे । कमलु व्व सिरिनिवासो, देसो सिरिसिन्धुसोवीरो ॥१॥ तत्थ त्थि विविहधणकण-मणिकणयसमिद्धसयललोयाण । सव्वत्थ वि वीयभयं, वीयभयं नाम वरनयरं ॥२॥ तम्मि सुविसालवंसो, ललियगई पयडदाणदुल्ललिओ। सत्तंगसलहणिज्जो, हत्थि व्व उदायणो राया ॥३॥ अंगीकयवित्तगुणा, सिणेहपरिपूरिया दसासुहया । देवी पभावई से, पभावई दीवियासरिसा ॥४॥
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org