________________
२७
द्वितीयं धर्मलाभद्वारम्
व्याख्या-गिरिसरिदुपलक्रमेणेति यथा गिरिनद्यामुपलः कश्चिद् घञ्चनाघोलनावशतः स्वयमेव घर्षयित्वा त्रिकोणादिभावं भजते । एवं यथाप्रवृत्तिकरणेन जीवोऽपि स्वयमेव कोटाकोटिपर्यन्तं मोहकर्म कृत्वा तुः पुनरर्थे यावद् ग्रन्थिदेशं प्राप्तः ॥९॥
तावज्जीवः किं करोतीत्याहतत्तो अपुव्वविरियस्सु-ल्लासवसादपुव्वकरणेणं । गंठि भिंदइ जीवो, जो भव्यो जेण भणियमिमं ॥१०॥
व्याख्या-ततो-ग्रन्थिदेशप्राप्तेरनन्तरं, अपूर्ववीर्योल्लासवशादपूर्वकरणेन-पूर्व कदाचिदप्राप्तेन, अत्र हि वर्तमानो जीवस्तादृशान् स्थितिघातरसघातादीन् क्रिया-विशेषान् करोति, यादृशाः संसारे न कदाचित् पूर्वं कृता इत्यतोऽपूर्वकरणमिदमुच्यते, तेन ग्रन्थि 10 भिनत्ति-निबिडकर्मभावरूपं विदारयति यो भव्यो-मुक्तिपदयोग्यो नान्य इति भावः । किं स्वमनीषिकयेदमुच्यते ? नैव येन सिद्धान्ते भणितम् [इदम् ॥१०॥
कथमित्याहजा गंठी ता पढम, गंठिं समइच्छउ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥११॥
व्याख्या-यावद् ग्रन्थि तावत्प्रथमं-यथाप्रवृत्तिसझं करणम् , [ग्रन्थि समतिक्रान्तः भवेद् द्वितीयं] न विद्यते समानसमयवर्तिनां परस्परमध्यवसायस्य निवृत्तिः-वैलक्षण्यं यत्र तदनिवृत्तिकरणम् । अत्र हि प्रविष्टानां प्राणिनां प्रथमादिकेऽसङ्ख्येयतमावसानसमये वर्तमानानां स्वभावादेव निवृत्तिः-वैलक्षण्यं नास्त्येवेतिभावः । एतच्च मिथ्यात्वं यदुदीर्णं तस्मिन् क्षीणेऽनुदीर्णे तु सत्तामात्र- 20 वर्तिन्युपशान्ते, उदयोद्वर्तनाद्ययोग्यत्वेन व्यवस्थापिते सति स्यादित्याह-सम्यक्त्वपुरस्कृते जीवे-सम्यग्दर्शनार्हे प्राणिनि भवतीति शेषः ॥११॥
स च कर्मग्रन्थिः किं स्वरूप इत्याहगंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥१२॥ व्याख्या-ग्रन्थिरिति सुदुर्भेदो-दुःखभेद्यः कर्कशघनरूढगूढग्रन्थिरिव तत्र
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org