SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मविधिप्रकरणम् सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीदं, द्वारं परीक्षाभिधमादिभूतम् ॥२५०॥ उक्तं प्रथमद्वारं, धर्मपरीक्षा च तत्र निर्दिष्टा । सा बोभवतीति सम्यग् , जिनधर्मस्यैव लाभेन ॥१॥ स च लाभो जन्तूनां कथमत्र स्यादिति क्रमायातं द्वारं द्वितीयमधुनाह-तस्य च प्रथमगाथेयम् धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मस्स । खयउवसमभावेणं, सो वि य संजायए एवं ॥७॥ 10 व्याख्या-धर्मस्य-सम्यग्दर्शनरूपस्य लाभ:-सम्प्राप्तिर्भवति, अनादेरदृष्टमूलस्य मोहनीयाभिधकर्मणः क्षयोपशमन-विनाशोपशान्तिस्वरूपेण सोऽपि क्षयोपशमः पुनरेवं-वक्ष्यमाणप्रकारेण सञ्जायते चेत्याह ॥७॥ मिच्छत्तमोह एगूण-हत्तरिं कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥८॥ 15 व्याख्या-मिथ्यात्वमोहे-मिथ्यात्वविपाककारिणि मोहनीये कर्मणि एकोनसप्ततिं कोटाकोटिमतराणां-सागरोपमानां नियमा-निश्चितं क्षपयति जीवः-प्राणी, केन यथाप्रवृत्तिकरणेन-अध्यवसायविशेषेण, इदमत्र हृदयम्-इह तीर्थङ्करगणधरचक्रवर्त्यादीनामपि सर्वे जीवाः प्रथमं तावदव्यवहारराशिषु निगोदादिष्वनादिकालादारभ्य मिथ्यात्वमेव केवलं वेदयन्तोऽनन्तान् पुद्गलपरावर्त्तान् यावत् प्रतिवसन्ति । ततः कथञ्चिद् भव्यत्ववशात्तेभ्य उद्धृत्य पृथ्व्यादिषु पौन:पुण्येन पर्यटन्ति । तदित्थमनन्तानि पुद्गलपरावर्त्तलक्षणानि संसारकान्तारे केवलमिथ्यात्वमोहितमतयो जीवाः परिभ्रम्य ततः कथञ्चिन्मनुष्यत्वादिष्वागताः सन्तो यथाप्रवृत्ततः कर्माणि ग्रन्थिप्रदेशागमनप्रतिपन्थीनि क्षपयित्वाऽभिन्नपूर्वग्रन्थि केचित् कथमपि प्राप्नुवन्ति । शब्दार्थश्चायम्-करणं तावदध्यवसायविशेषः । स च विशिष्टज्ञानादिगुणमन्तरेण स्वयमेव प्रवृत्तो यथाप्रवृत्त 25 उच्यते । यथाप्रवृत्तं च तत्करणं च तत्तथा तेनेति गाथार्थः ।।८।। एतदेव स्पष्टयन्नाहएवं गिरिसरिदुवल-क्कमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो, जा पत्तो गंठिदेसंमि ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy