________________
प्रथमं धर्मपरीक्षाद्वारम्
इष्टोऽत्र वर्द्धमानः, साक्षाद्धम्र्म्मोपदेशकत्वेन । तत्तस्य नमस्करणा-च्छास्त्रादौ मङ्गलं कथितम् ॥४॥ यदुक्तं धर्म्मविधिनाम प्रकरणमेतत्तदेवार्थतो व्युत्पादयन्नाह— कप्पियसमत्थवत्थु - प्पयाण दुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो तस्स विही भन्नए एसो ॥२॥
?
व्याख्या - यो धर्म्मः सत्त्वानां देहिनां सदा सर्वकालं कल्पितसमस्तवस्तुप्रदाने मनोवाञ्छितार्थवितरणे दुर्ललितकल्पतरुकल्पः सदैव दानगुणकल्पवृक्षोपमः । एतेन धर्म्मस्यातिशयोक्तिरुक्ता । तस्य धर्मस्य विधिः कर्त्तव्यलक्षण एष वक्ष्यमाणो भण्यते कथ्यत इति गाथार्थः ॥२॥ अधुना तस्यैव धर्म्मविधेरुपदेशद्वाराण्याह
इह धम्मस्स परिक्खा १, लाभो २ गुण ३ दोस ४ दायगा ५ जुग्गा ६ । कइभेया ७ फलसिद्धी ८, इय अट्ठ भणामि दाराई ॥३॥
व्याख्या - इहाऽस्मिन् धर्म्मविधिनाम्नि प्रकरणे, धर्म्मस्योक्तस्वरूपस्य परीक्षा -विवेचनं १ धर्म्मस्येति प्रत्येकमभिसम्बन्धाद्धर्म्मस्य लाभः - सम्प्राप्तिः २ तथागुणदोषदायका इति, तत्र धर्म्मस्य गुणा - अतिशयाः ३ धर्म्मस्य दोषा - नाशहेतवः ४ 15 धर्म्मस्य दायका - गुरव: ५ गुणाश्च दोषाश्च दायकाश्चेति द्वन्द्वः । धर्म्मस्य योग्या-अर्हाः ६ धर्मस्य कतिभेदा:- कियन्तः प्रकाराः ७ धर्म्मस्य फलसिद्धिः - फलावाप्तिः ८ इत्यमुना प्रकारेणाष्टौ द्वाराणि भणामि वच्मि इति गथार्थः ॥३॥
तत्र प्रथमं तावद्धर्म्मपरीक्षाद्वारमधिकृत्याह
जह कणगंमि परिक्खा, कस-छेयण - ताव - ताडणेहिं सया । सुयसीलतवदयाहिं, तहेव धम्मंमि कायव्वा ॥४॥
व्याख्या–कषछेदनतापताडनैरिति तत्र कष:- सुर्वणपरीक्षापाषाणः छेदनंद्विधाकरणम् तापो-वह्नौ शोधनम् ताडनं - पत्रकुट्टनादि । पश्चाद् द्वन्द्वस्तैर्यथा कनके सुवर्णे परीक्षा विचारः ['सदा'] क्रियते । तथा श्रुतशीलतपोदयाभिः श्रुतम् - आचाराङ्गादि शीलं-ब्रह्मचर्यं तपो-ऽनशनादि दया-प्राणिरक्षा पश्चाद् द्वन्द्वस्ताभिः धर्मे श्रुतचारित्रलक्षणे 25 परीक्षा कर्तव्या इति गाथार्थ: ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
5
10
20
www.jainelibrary.org