________________
5
10
20
४
25
व्याख्या- धर्म्मविधिनाम प्रकरणं तत्र दुर्गतौ पतन्तं प्राणिगणं धारयतीति धर्म्मः, तस्य विधिः - कर्त्तव्यलक्षणोऽर्थस्तमहं समासेन - सङ्क्षेपेण वक्ष्ये भणिष्यामि, स्वपरहितार्थमिति क्रियाविशेषणं, तत्र स्वहितं पुण्यजनकत्वात् । परहितं चोपदेशात्मकत्वात् । किं कृत्वा वक्ष्यामीत्याह - नत्वा - प्रणम्य, कं 15 वर्द्धमानं वर्त्तमानतीर्थाधिपतिं किं विशिष्टं ? त्रिदशेन्द्रनरेन्द्रविहितबहुमानं तत्र त्रिदशाश्चतुर्विधदेवास्तेषामिन्द्राः - परमैश्वर्यभाजो नराः - मनुजास्तेषामिन्द्राश्चक्रवत्र्त्यादयस्तैर्विहितः प्रकटितो बहुमान:- पूजातिरेकोऽन्तरङ्गभक्तिप्रकर्षो वा यत्र स तथेति गाथार्थः ॥१॥
श्रीधर्मविधिप्रकरणम्
,
सज्जनमुदेऽत्र सूक्तं यच्चान्यद्दुष्टतुष्टये तदपि । द्वेधापि परोपकृते मम श्रमः सफल एवासौ ॥ ९ ॥ यद्याह परो वायस - दशनपरीक्षेव निरभिधेयमिदम् । अपि चाप्रयोजनं खलु, कण्टकशाखोपमर्द्दनवत् ॥१०॥ दश दाडिमानि पूपाः, षडिति वचोवत्तथा न सम्बद्धम् । इत्यादिहेतुनिवह-स्यासिद्धत्वप्रकटनाय ॥११॥
प्रेक्षावतां प्रवृत्त्यै, शास्त्रादावादिमङ्गलार्थं च । प्रकरणकारः प्रथमं, गाथामेकामिमामाह ॥ १२॥ नमिऊण वद्धमाणं, तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण ॥१॥
Jain Education International 2010_02
अत्र च धर्म्मविधिमहं वक्ष्यामीत्येतदुक्तमभिधेयम्, स्वपरहितार्थमितिपदात् प्रयोजनं चापि सूत्रकृता । तच्च प्रयोजनं स्यात्, इह कर्तृश्रोतृभेदतो द्वेधा, पुनरेकैकं भवति, द्विभेदमपरं परं चेति ॥ १ ॥ कर्त्तुरपरं प्रयोजनं - मिह सत्त्वानुग्रहः परं मोक्षः । श्रोतुरपि शास्त्रतत्त्वा-वगमो मुक्तिश्च तत्करणात् ॥२॥ सम्बन्धश्च प्रकरण-मध्यगतो वाच्यवाचकाभिख्यः । इत्यभिधेयादियुते, बुद्धिमतां स्यात् प्रवृत्तिरिह ||३||
For Private & Personal Use Only
www.jainelibrary.org