________________
॥ ॐ नमः श्रीशङ्खेश्वरपार्श्वनाथाय ॥ न्यायाम्भोनिधिश्रीद्विजयानन्दसूरीश्वरशिष्यमहोपाध्याय श्रीविरविजयपादपद्येभ्यो नमः
श्रीमदुदयसिंहसूरिविहितवृत्तिसंवलितम् ॥ श्रीमत् श्रीप्रभसूरिकृतधर्मविधिप्रकरणम् ॥
जयति जगदभयहेतुः, स श्रीवीरः पराक्रमाभ्यधिकः । यस्याद्भुतसरलतया, विततगुणः स्फुरति धर्म्मविधिः ||१|| हतजाड्यतमा रविव-द्विपुलमहा विश्वबोधकात्मानः । ददतामनुदिनमुदयं, नाभेयोऽन्येऽपि तीर्थेशाः ॥२॥ सा जीयाद् जनी गौः, सद्वर्णालङ्कृतिर्नवरसाढ्या । त्रिपदान्वितयापि यया, भुवनत्रयगोचरोऽव्यापि ॥३॥ श्रीगौतमादिगुरवो हंसा इव चरणरागसुगतिभृतः । कृतसन्मानसवासा, विशुद्धपक्षा मुदं दद्युः ॥४॥ शून्येन मादृशापि हि येषामेकस्वरूपिणां पुरतः । अधिकमलभ्यत गणना, नमोऽस्तु तेभ्यो निजगुरुभ्यः ॥५॥
स्तुत्वाऽभीष्टानेवं,“श्रीश्रीप्रभसूरिभिर्विरचितस्य । श्रीधर्म्मविधेर्वृत्ति, गुरूपदेशात् करिष्येऽहम् ||६||
कृत्यविधावनभिज्ञः, शिशुरिव गुरुकार्यवृत्तिकृतचित्तः । क्वचित् पदे स्खलितोऽपि, स्थाप्यः सद्भिर्न हास्योऽहम् ॥७॥ यच्चायुक्तार्थमहं, मुग्धमतिर्वच्मि किञ्चिदप्यत्र । पुत्रापराधवत्त - द्विबुधैर्मम सह्यतां सर्वम् ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
5
10
15
www.jainelibrary.org