________________
१८
[३] धर्मगुणद्वारम्
१५-१७ सम्यक्त्वमहारत्ने भवदुःखदारिद्रयविद्रवे प्राप्ते नारकतिर्यग्गत्योयोनिरुद्धानि द्वाराणि ॥
१५ सम्यग्दृष्टेरपि नरकतिर्यक्षु अबद्धायुष एव जीवस्य सुरनरसिद्धिसुखानि स्वाधीनानि ॥ १६ कामदेवश्राद्धो श्रीवीरजिनाल्लब्धवरधर्मः सुरसुखानि भुक्त्वा महाविदेहक्षेत्रे सिद्धि यास्यति ॥
धर्मगुणद्वारे कामदेवश्राद्धदृष्टान्तः ॥ [४] धर्मदोषद्वारम्
प्रथमकषायाश्चत्वारो यावज्जीवानुगामिनो नरकस्य हेतवः, तेषामुदये भव्या अपि सम्यक्त्वं मुञ्चन्ति ॥ द्वितीयतृतीयकषायानां संवत्सरचतुर्मासगामिनां तिर्यग्गमनुष्यगतिहेतुनामुदये देहिनो द्विविधामपि विरतिं वमन्ति ॥ सज्वलननाम्नां पक्षं यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो भवति, ते सम्यक्त्वादीन् न जन्ति ॥ कषायकलुषितः सम्यक्त्ववानपि कश्चित् कुगतिं गतः ॥ प्रथमकषायैश्च्युतः सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारश्रेष्ठ अचिरात् तिर्यक्त्वं प्राप्तः ॥
धर्मदोषद्वारे नन्दमणिकारश्रेष्ठिदृष्टान्तः [५] सद्धर्मदायकद्वारम्
पञ्चविधाचाररताः, षड्जीवनिकायरक्षणे युक्ताः, पञ्चसमिताः, त्रिगुप्ताः, गुणवन्तो गुरवः ॥ गुरूणां षट्त्रिंशद् गुणाः ॥
२३-२७ षट्त्रिंशद्गुणयुक्तगुरुणां पार्वे विशुद्धधर्मपरिणामशुद्धबुद्ध्या सम्यक्त्वादिधर्मो विधिना गृहिणा ग्रहीतव्यः ॥ ये गुरवोऽलोभाः प्रवहणवत् भवसागरे ते आत्मनि परस्मिश्च तारकाः, न लोभादिग्रहग्रस्ताः ॥ आर्यसुहस्तीनां गुरूणां गुरुप्रसादमाहात्म्यालब्धा सम्प्रतिभूपालेन निरुपमसौख्यानां रिञ्छोलिः ॥
सद्धर्मदायकद्वारे सम्प्रतिभूपदृष्टान्तः ॥ [६] धर्मदानयोग्यद्वारम्
३१-३३ अक्षुद्रादिगुणैर्युक्तो धर्मस्य योग्यो भवति ॥ धर्मरत्नयोग्यानामेकविंशतिगुणाः ॥
२२-३०
२२
३०
AN
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org