________________
20
१२४
लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥२॥ [ ध.र./गा.६ ] वुड्डाणुगो विणीओ, कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणेहि संजुत्तो" ॥३॥ [ ध.र./गा.७ ] 5 आसां गूढार्थत्वाद् व्याख्या लिख्यते - धर्म्मरत्नस्य योग्योऽक्षुद्रो ऽतुच्छो गम्भीराशयः १, रूपवान् २, प्रकृतिसोमः स्वभावेन सुधांशुवदानन्दकारी ३, लोकप्रियः - लोकानां वल्लभः ४, अक्रूर: ५, भीरुर्जनापवादेभ्यः ६, अशठः - सरलाशयः ७, सुदाक्षिण्यः ८, लज्जालुः स हि प्राणापहारेऽपि न प्रतिज्ञां त्यजति ९, दयालुः १०, मध्यस्थो - रागद्वेषरहितः ११, सोमदृष्टिः- शान्तदृग् न परवृद्धिमत्सरी १२ गुणरागी - गुणबहुमानी 10 १३, सत्कथः-परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च सन्मार्गपक्षपाती १४, कार्यं कुर्वन् सुदीर्घकालमर्थनर्थं वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी १५, विशेषज्ञ :कृत्याकृत्यवेदी १६, वृद्धानुगो - वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः १७, विनीतः १८, कृतज्ञो - यः स्तोकोपकारकमपि बहु मन्यते १९, परहितार्थकारी च २०, तथा चैव लब्धलक्षः इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । 'तस्स' त्ति प्राकृतत्वात् 15 चतुर्थीस्थाने षष्ठीति तस्मै योग्याय एष धर्म्मो दातव्यः, सुगुरुभिः पूर्वोक्तैर्यथोचितंपात्रापात्रानुमानेनेति गाथार्थः ॥३१॥
अधुना योग्यायोग्यविचारं दृष्टान्तेन स्पष्टयन्नाह -
25
श्रीधर्मविधिप्रकरणम्
जुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेऊ । स पुण अजुग्गस्स विसं, सप्पोयरखित्तखीरं व ॥ ३२ ॥
-
व्याख्या- योग्यस्य पूर्वोक्तस्य एष धर्मः परमपदहेतुर्भवति, किंवद् ? गोदत्ततृणवत्, तदपि परमपयसः प्रकृष्टक्षीरस्य हेतुः कारणं भवति, इति प्राकृतशब्दश्लेषः व्यतिरेकमाह - स धर्म्मः पुनरयोग्यस्य विषमिव विषं, विनाशहेतुत्वात् सर्पोदरक्षिप्त क्षीरवत् तदपि विषं भवतीति गाथार्थः ॥३२॥
योग्यस्योपदेशमात्रेऽपि दृढधर्म्मतां दृष्टान्तेनाह
Jain Education International 2010_02
सुगूरूवएसले पि, पाविउं के वि हुतिं दढधमा । जुग्गत्ताओ निवपुत्त-वंकचूलु व्व आजम्मं ॥ ३३॥
For Private & Personal Use Only
www.jainelibrary.org