SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पञ्चमं सद्धर्मदायकद्वारम् सद्धर्मदायकाः ते स्युः, कीदक्षा इति क्रमायातम् । द्वारं पञ्चममधुनाह, तस्य च प्रथमगाथेयम् ॥२॥ पञ्चविहायाररया, छज्जीवनिकायरक्खणुज्जुत्ता । पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥२२॥ व्याख्या-पञ्चविधाचाररता-ज्ञानादिपञ्चविधाचारपालकाः, षड्जीवनिकायरक्षणे 5 युक्ताः-षड्जीवनिकायः पृथ्वीकायादिस्तस्य रक्षणं-पालनं तस्मिन्नुयुक्ता-उद्यमिनः, पञ्चसमिताः-ईर्या१भाषैरषणा३दाननिक्षेपो४त्सर्गपसमितितत्पराः, त्रिगुप्ता-मनोवचनकायगोपनसमर्थाः, गुणवन्त इति-गुणाः षट्त्रिंशत्सङ्ख्या प्रमिता विद्यन्ते येषां ते गुणवन्तः ते चामी देसकुलजाइरुवी, संघयणी धीजुओ अणासंसी । 10 अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥२३॥ जियपरिसो जियनिद्दो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥२४॥ पंचविहे आयारे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहारणहेउकारण-नयनिउणो गाहणाकुसलो ॥२५॥ ससमयपरसमयविओ, गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥२६॥ गूढार्थत्वादासां व्याख्या-देशकुलजातिरूप्याण्यतिशायीनि विद्यन्ते यस्य स तथा, तत्र देशो-मध्यदेशो जन्मभूमिः १, कुलं-इक्ष्वाक्वादि २, जाति:-मातृसमुत्था ३, रूपम्-अङ्गोपाङ्गसम्पूर्णता ४, संहननी-विशिष्टसंहननः स हि वाचनादौ न 20 श्राम्यति ५, धृतियुक्तः ६, अनाशंसी-श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी ७ अविकत्थनोऽबहुभाषी अनात्मश्लाघापरो वा ८, अमायी-नि:कपटः ९, स्थिरा-निश्चला परिपाटि:-सूत्रार्थवाचना यस्य स तथा १०, गृहीतं वाक्यं येन स तथाऽवधारणावान् ११, जितपरिषत् १२, जितनिद्रः १३, मध्यस्थः शिष्येषु समचित्तः १४, देश:साधुभावितादिः १५, कालः-सुभिक्षादिः १६, भाव:-क्षायोपशमादिः तान् जानातीति 25 15 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy