SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीधर्मविधिप्रकरणम् ये धर्मं सुगुरूपदिष्टविधिना स्वीकृत्य सन्मन्त्रवत् , श्रद्धानोल्लसनेन तद्गुगणस्फूर्ती स्फुरन्निश्चयाः । नि:कम्पाशयधारणास्थिरधियो ध्यायन्ति शुद्धात्मकास्तेषां स्यादिह कामदेवगृहिवत्सिद्धिर्न दूरे जनाः ! ॥१७६।। सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयम् ॥१७७।। द्वारं तृतीयमुक्तम् , धर्मस्थिरतागुणश्च निर्दिष्टः । सोऽपि कषायैस्त्यक्तैः, के दोषाः स्युस्तदत्यागे ॥१॥ इति सम्बन्धायातं, द्वारं व्याख्यायते चतुर्थमिदम् । तस्य च कषायदोष-प्रकाशिनी प्रथमगाथेयम् ॥२॥ पढमकसाया चउरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए, सम्मं मुंचति भव्वा वि ॥१८॥ व्याख्या-प्रथमे च ते कषायाश्च प्रथमकषायाः, चत्वार-आद्या अनन्तानु15 बन्धिनामानः क्रोधमानमायालोभाः यावज्जीवानुगामिन:-आसंसारानुवर्तिनो, नरकस्य हेतवः-कारणं तेषामुदये-समुल्लासे सम्यक्त्वं मुञ्चन्ति-त्यजन्ति भव्या अपि, कोऽर्थः ? भव्या एकादशगुणस्थानवर्तिनः केवलिसमानचारित्रिणोऽपि यदि केनचित् कर्मवशेन पर्यन्तेऽन्तर्मुहूर्त्तमानमपि कालमनन्तानुबन्धिकषायोदये वर्तमाना म्रियन्ते, तदा तत् सर्वमपि हारयित्वा प्रथमकषायतीव्रत्वेन नरकेऽप्युत्पद्यन्त इति भावः ॥१८॥ 20 ईदानी द्वितीयतृतीयकषायस्वरूपमाह बियतइयकसायाणं वच्छरचउमासगामिणामुदये । तिरिनरगइहेऊणं, विरइं च वमंति दुविहं पि ॥१९॥ व्याख्या-द्वितीयतृतीयकषायानां-अप्रत्याख्यानप्रत्याख्यानावरणनामधेयानां क्रोधादीनां यथासङख्यं संवत्सरचतुर्मासगामिनां तिर्यग्गमनुष्यगतिहेतुनामुदये 25 देहिनो द्विविधामपि-देशविरतिसर्वविरतिरुपां विरतिं वमन्ति-भुक्तकलमौदनवदुगिरन्ति, चशब्दो यथासङ्ख्यसूचकः ॥१९॥ १. ० श्रीप्रभसूरिराज्ये इति पाठान्तरम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy