________________
'प्रस्तावना
अयं दान-शील-तपो-भावरूपेषु धर्मप्रकारेषु भावधर्मप्राधान्यव्यावर्णनपर: कूर्मापुत्रचरितनामा लघीयान् कथाग्रन्थः श्रीहेमविमलसूरिशिष्येण श्रीजिनमाणिक्याख्येन विदुषा विनिर्मित इति ग्रन्थस्यास्यान्त्यगाथाया विज्ञायते ।
श्रीहेमविमलसूरयश्च तपागच्छपट्टावल्यादौ विक्रमीयषोडशशताब्यां लब्धसत्ताकतया प्रसिद्धाः अत एतद्ग्रन्थप्रणयनसमयोऽपि स एवानुमीयते ।
- हरगोविन्दः ।
१. जैनविविधसाहित्यशास्त्रमाला (१३) मुद्रितपुस्तके इयं प्रस्तावनाऽस्ति ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org