________________
त्रिविष्टपप्रापणो नाम सप्तमः सर्गः
श्रीषेणाह्वयसूरिराजचरणद्वन्द्वैकसेवापरौ, श्रीमद्वीसलसत्कुलं चिरतरं संशोभयामासतुः ॥३९|| तेजः सर्वसपत्नदर्पदलनं विश्वम्भरोद्धारकृद्दानं साहसमप्यनेकसुमनश्चेतोलसद्विस्मयम् । बुद्धिः श्रीजिनधर्ममर्मविषया चन्द्रप्रभाभासुरा, कीर्तिः श्रीनिलयस्य तस्य जगडूनाम्नः प्रियं किं न किम् ॥४०॥
इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते श्रीजगडूचरिते महाकाव्ये त्रिविष्टप्रापणो नाम
सप्तमः सर्गः ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org