________________
७१
परिशिष्ट ।
यत्कर्मराजेन कृतं सुकार्यमन्येन केनाऽपि कृतं हि तन्नो । . यम्लेच्छराज्ये [ऽपि नृपा] ज्ञयैवोद्धारः कृतः सप्तम एष येन ॥३५॥ सत्पुण्यकर्माणि बाहूनि सङ्के कुर्वन्ति भव्याः परमत्र काले । कर्माभिधानव्यवहारिणैवोद्धारः कृतः श्रीविमलाद्रिशृङ्गे ॥३६॥ श्रीचित्रकूटोदयशैलशृङ्गे कर्माख्यभानोरुदयान्वितस्य । शत्रुञ्जये बिम्बविहारकृत्य [कर्माव]लीयं स्फुरतीति चित्रम् ॥३७॥ श्रीमेदपाटे विषये निवासिनः श्री कर्मराजस्य च कीर्तिरु[ज्वला] । देशेष्वनेकेष्वपि [सञ्चरत्य]हो ज्योत्स्नेव चन्द्रस्य नभोविहारिणः ॥३८॥ दत्तं येन पुरा धनं बहुसुरत्राणाय तन्मानतो यात्रा येन [नृ]णां च सङ्घपतिना शत्रुञ्जये कारिता । साधूनां सुगमैव सा च विहिता चक्रे प्रतिष्ठाऽर्हतामित्थं वर्णनमुच्यते कियदहो ? श्रीकर्मराजस्य तु ॥३९॥ येनोद्धारः शुभवति नगे कारितः पुण्डरीके स्वात्मोद्धारो विशदमतिना दुर्गतस्तेन चक्रे । येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा प्राप्तास्तेन त्रिभुवनतले सर्वदैव प्रतिष्ठाः ॥४०॥ सौम्यत्वेन निशामणिनिमणिस्तीव्रप्रतापेन च वंशोद्दीपनकारणागृहमणिश्चिन्तामणिर्दानतः । धर्माच्छ्राद्धशिरोमणिर्मदविषध्वस्तान्मणिर्भोगिनः एकानेकमयो गुणैर्नवनवैः श्रीकर्मराजसुधीः ॥४१॥ तोलासुतः सुतनयो विनयोज्वलश्च लीलूसुकुक्षिनलिनीशुचिराजहंसः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org