________________
७०
परिशिष्ट । तत्रास्ति श्रीधराधीशः श्रीमद्वाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाययौ ॥२६॥ राज्यव्यापारधौरेयः षानश्रीमान्मझादकः । तस्य गेहे महामन्त्री रवाख्यो नरसिंहकः ॥२७॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुञ्जये गिरौ ॥२८॥
श्रीपादलिप्तललनासरशुद्धदेशे सद्वाद्यमङ्गलमनोहरगीवनादैः । श्रीकर्मराजसुधिया जलयात्रिकायां चक्रे महोत्सववरः सुगुरूपदेशात् ॥२९॥ चञ्चच्चङ्गमृदङ्गरङ्गरचनाभेरीनफेरीरवावीणा[वंश] विशुद्धनालविभवा साधर्मि[वात्सल्य]कम् । वस्त्रालङ्कति[हेम]तुङ्गतुरगादिनां च स[व]र्षण
मेवं विस्तरपूर्वकं गिरिवरे बिम्बप्रतिष्ठापनम् ॥३०॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे (१५८७) । शाके जगत्रिबाणे (१४५३) वैशाखे कृष्णषष्ठ्यां च ॥३१॥ मिलिताः सूरयः सङ्घा मार्गणा मुनिपुङ्गवाः । वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ॥३२॥ लावण्यसमयाख्येन पंडितेन महात्मना । सप्तमोद्धारसक्ता च प्रशस्तिः प्रकटीकृता ॥३३॥ श्रीमद्वा( हदर) क्षितीशवचनादागत्य शत्रुञ्जये प्रासादं विदधाप्य येन वृ........द्विम्बमारोप्य च । उद्धारः किल सप्तमः कलियुगे चक्रेऽथ ना..... जीयादेष सदोशवंशमुकुटः श्रीकर्मराजश्चिरम् ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org