________________
परिशिष्ट-१७
[२३१
दूत विद्या तया च दूतविद्यया यो दूत आगच्छति, तस्य दंशस्थानमपमाय॑ते । तेनेतरस्य दंशस्थानमुपशाम्यति ।
(गा. २४३६ टी.प.२६) व्यजन विद्या व्यजनविषया विद्या यया व्यजनमभिमंत्र्य तेनातुरोऽपमृज्यमानः स्वस्थो भवति, सा व्यजनविद्या।
(गा. २४३६ टी. प. २७)
वस्त्र विद्या या विद्या वस्त्रविषया भवति तया परिजपितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणो भवति।।
(गा. २४३६ टी. प. २६) विभिन्न विद्याओं का प्रयोग
दूअस्सोमाइज्जति, असती अद्दाग परिजवित्तापं । परिजवितं वत्थं वा, पाउज्जइ तेण वोमाए ।। एवं दब्भादीसु, ओमाएऽसंफूसंत हत्थेणं । चावेडी विजाए व, ओमाए चेडयं दितो।।
दूत्या विद्यया दूतस्यागतस्यांग प्रमाय॑ते, तस्या विद्याया असति आदर्श सङ्क्रान्तमातुरप्रतिबिम्बं परिजप्यातुरः प्रगुणीकर्तव्यः। तदभावे वस्त्रविद्यया परिजपितं वस्त्रं प्रावार्यते, तेन वा परिजपितेन वस्त्रेणातुरोऽपमार्जते एवं दर्भादिभिः परिदर्भविद्यादिभिः हस्तेनासंस्पृशन्नपमार्जयेत् । चापेट्या वा विद्यया अन्यस्य चपेटां दददन्योऽपमार्जयेत्। विद्याः प्रायः पुरुषेषु भवन्ति।
(गा. २४४०, २४४१ टी. प. २७)
विद्यासिद्धि में काल का महत्त्व
कालादिउवयारेणं, विज्जा न सिज्झए विणा देति । रंधे व अवद्धंसं, सा वा अण्णा व सा तहिं।।
कालाधुपचारेण विना विद्या न सिध्यति न केवलं न सिध्यति किन्तु कालादिवैगुण्यलक्षणे रन्ध्रे छिद्रे सति साधिकृतविद्याधिठात्र्यन्या वा क्षुद्रदेवता तत्राबसरे अवध्वंसं दधाति । एष दृष्टान्तेऽयमुपनयो व्यतिकृष्टे काले सूत्रे उद्दिश्यमानेन पठ्यमानेन वा सूत्रं निर्जरा फलदायितया न सिध्यति, न केवलं न सिध्यति, किन्तु यया देवतया सूत्रमधिष्ठितं सा कालातिक्रमेण पठनतः क्षाम्यन्ती प्रान्ता वा काचिद्देवता अकालपठनलक्षणं च्छिद्रं अवाप्यावध्वंसं दध्यात्। (गा. ३०१८ टी. प. ३४)
विद्याचक्रवर्ती का वचनमात्र विद्या
जधा विजानरिंदस्स, जं किंचिदपि भासियं । विज्जा भवति सा चेह, देसे काले य सिज्झति ।। विद्याचक्रवर्तिनो यत् किञ्चिदपि भाषितं विद्या भवति, सा चेह जगति देशे काले वा सिद्ध्यति न कालाधुपचारमन्तरेण ।
(गा. ३०२० टी. प. ३४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org