SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 240 आवश्यकहारिभद्रीया इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणे'इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा लाच स्वाधं च, 'अन्य'ति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेष भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहअसणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउब्विहो होइ नायव्यो ॥१५८७॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ १५८८ ॥ __ अशनं-मण्डकोदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधा-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान-रसादीम् संयमगुणान् वा यतस्ततः स्वादिम, हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रं निरुक्तं पाठात् , भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् , साधुरेवायमन्धर्थ इति गाथार्थः॥ १५८८ ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभाकपदविषय इति नोक्तः। अधुना चालनामाहसव्वोऽविय आहारो असणं सब्दोऽवि वुच्चई पाणं । सम्वोऽविग्वाइमंतिय सव्वोऽविय साइमं होई ॥१५८२।। __ यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव स्वादिम भवति, अन्यथा विशेषात् , तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपूगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुकमेवं भेद इति गाथार्थः ॥ १५८९ ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि] रूडितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाहजह असणमेव सव्वं पाणग अविवजणंमि सेसाणं । हवइया नेसेसविवेगो तेण विहत्ताणि चउरोऽवि ॥१५९०॥ यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् । भवति शेषविवेकः-अस्ति च शेषाहारभेदपरित्यागः, भ्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तभेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति 'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाहअसणं पाणगं चेव, खाइमं साइमं तहा । एवं परूबियंमी, सद्दहिउँ जे सुहं होइ ॥ १५९१ ॥ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, सथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं', उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पञ्चक्खाणं न पमाणं पंजणच्छलणा ॥१५९२॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनो। गतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाण व्यञ्जन-तच्छिण्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२ ॥ इदं च प्रत्याख्यानं प्रधान निर्जराकारणमिति विधिवदनुपालनीयं, तथा चाह Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy