SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 161 आवश्यकहारिभद्रीया असवत्तो होइ काययो ॥२॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशा तनया, क्रिया पूर्ववत् , आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति. न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एपः क इव तस्यात्र दोष इति-. जं वाइदं वचामेलियं हीणकवरियं अचखरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुहृदिन्नं दुटु पहिच्छियं अकाले कओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुकडं (मूत्रं) एए चोद्दस सुत्ता पुबिल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याधिद्धं विपर्यस्तरत्नमालावद, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्यानेडितं कोलिकपायसवत् , हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षर, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, धोपहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽ. १ असपत्नो भवति कर्त्तव्यः ॥ २॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि प्रयस्त्रिंशदाशातनासूत्राणि ध्ययनकाल उक्त इति, अस्वाध्यायिक स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिकनियुक्तिरित्यम्यामेवाऽऽद्यद्वारगाथाअसज्झाइयनिजुत्ती वुच्छामी धीरपुरिसपण्णत्तं । ज नाऊण सुविहिया पवयणसारं उवलहंति ॥ १३२१ ।। असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायव्वं ॥ १३२२॥ व्याख्या-आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायःस्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिक तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं-द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं-स्वव्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थं-संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकार 'मुणेयवं' ज्ञातव्यमिति गाथार्थः ॥ १३२१-१३२२ ॥ तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयति संजमघाउववाए सादिवे वुग्गहे य सारीरे । घोसणयमिच्छरणो कोई छलिओ पमाएणं ॥१३२३ ॥ व्याख्या-'संयमघातक' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युदहश्चेति व्युग्रहः-सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराहणा, १ एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत भात्मसंयमविराधना, तत्थ दिलुतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे य ॥ १३२४ ॥ व्याख्या-खिइपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलजयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रण्णो वयणेण दुग्गादिसु ते ण विणहा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेस तंपि दंडिया, एवमसज्झाए सज्झायं करंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छितेत्ति-पायच्छित्तं च पावइ 'इह त्ति इहलोए 'परे'त्ति परलोए णाणादि विफलत्ति गाथार्थः॥ १३२४ ॥(१९५००) इमो दिलुतोवणओराया इह तित्थयरो जाणवया साह घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधणाई च नाणाई ॥ १३२१ । व्याख्या-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुतं-असज्झाइए सज्झायपडि तन दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोपितं यथा म्लेच्छो राजा आगच्छति ततो ग्राम कूलनगरादीनि मुक्त्वा समासने दुर्गे तिष्ठत, मा विनङ्कत, ये स्थिता राज्ञो वचनेन दुर्गादिषु ते न विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभो मम कृत इति बदपि किमपि हृतशेषं तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च सामोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदास्तथा साधवो यथा घोषणं तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy