SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥ ५९ ॥ मावश्यक हारिभद्रीयवृत्तिः अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं- "जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दट्ठबं" अलं विस्त रेण । द्रव्येणानुयोगः प्रलेपाक्षादिना द्रव्यैस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोगं करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्रीपादीनां यथा द्वीपसागर प्रज्ञापा मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्या व्याख्यानं, उक्तं च "जंर्बुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मत्रिजाणा हवंति लोगा असंखिज्जा ॥ १ ॥” क्षेत्रैरनुयोगो यथा “बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु : कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां कालेनानुयोगो यथा - बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापहियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते प्रतिसमयापहारेग, कालेऽनुयोगो द्वितीयपौरुष्यां, कालेषु अवसर्पिण्यां त्रिषु कालेषु- सुषमदुष्षमायां चरमभागे दुष्षमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचन बहुवचनानां पोडशानां वा, वचनेनानुयोगो यथा - कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, १ जीवपर्यवा भदन्त ! किं संख्येया असंख्येया अनन्ताः १, गौतम ! नो संख्येयाः नो असंख्येया अनन्ताः, एवमजीवपत्राणां पृच्छा उत्तरं च द्रष्टव्यं । २ जम्बूद्वीपप्रमाणं पृथ्वी जीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ १ ॥ ३ बहुभिर्द्वीपसमुदैः पृथ्वी जीवानां. वचनैः स एव बहुभिः असकृद् अभ्यर्थितो वेति वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात् तस्य चैकत्वादिति भावार्थः । भावानुयोगो द्विधा- आगमनी नोआगतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां भावेन संग्रहा दिना, उतं च - " पंचहिं ठाणेहिं सुतं बाएजा, तंजहा - संगहट्टयाए १ उवग्गहट्टयाए २ निज्जरट्ठयाए ३ सुयपज्जबजातेणं ४ अछी ५" भावरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भात्रषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण - " दबे णियमा भावो ण विणा ते यावि खित्तकालेहिं ( ग्रन्थाग्रम् २५०० ) खि तिह भयणा काले भयणाए तीसुंपि ॥ १ ॥ इत्यादि” उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाधार्थः ॥ १३२ ॥ साम्प्रतं तत्प्रतिपादकष्टष्टान्तान् प्रतिपादयन्नाह - वच्छगगोणी १ खुज्जा २ सज्झाए ३ वेव बहिरउल्लावो ४ । गामिल्लए ५ य वयणे सत्तेवय हुंति भावंमि ॥ १३३ ॥ व्याख्या -- तत्र प्रथममुदाहरणं द्रव्याननुयोगानुयोगयोः वत्सक गौरिति- गोदोहओ जदि जं पाडलाए वच्छयं तं बहुलाए मुयइ बाहुलेरं वा पाडलाए मुयइ, ततो अणणुओगो भवति, तस्स य दुखकज्जरस अपसिद्धी भवति, जदि पुण १ पञ्चभिः स्थानैः सूत्रं वाचयेत्, तद्यथा-संग्रहार्थाय १ उपग्रहार्थाय २ निर्जरार्थाय ३ श्रुतपर्याय जातेन ४ अव्यवच्छिश्या ५। २ गोदोहको यदि यः पाया वसतं बहुलायै मुञ्चति, बाहुलेयं पाटलायै मुञ्चति, ततोऽननुयोगो भवति, तस्य च दुग्धकार्यस्य अप्रसिद्धिर्भवति, यदि पुनः 'जा तं ताए मुइ, तो अणुओगो, तस्स य दुद्धकजस्स पसिद्धी भवति । एवं इहात्रि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा जीवं, तो अणणुओगो भवति । तं भावं अण्णहा गेण्हति तेण अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण भोक्खो, मोक्खाभावे दिक्खा णिरत्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलक्खणेणं अजीवं, तो अणुओगो, तस्स य कज्जसिद्धी भवतित्ति, अविगलो अत्थावगमो, ततो चरणवुड्डी, ततो मोक्खति । एस पढमदितो ॥ १ ॥ क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणम् - पट्ठोणे णगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं णगरं पडिजाति, एवं कालो वच्चति, अण्णया तेण रण्णा रोहणं गएल एणं अत्याणमंडवियाए णिच्छूढं, तस्स य पडिग्गहधारिणी खुज्जा, अपरिभोगा एसा भूमी, णूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिश्चिओ, ताए तस्स सिहं, सो पर जाणगाणि पमक्खित्ता पयट्टावियाणि य, १ यो यस्यास्तं तस्यै मुञ्चति, ततोऽनुयोगः तस्य च दुग्धकार्यस्य प्रसिद्धिर्भवति । एवमिहापि यदि जीवलक्षणेन अजीवं प्ररूपयति, अजीवलक्षणेन वा जीवं ततोsननुयोगो भवति, तं भावमन्यथा गृह्णाति, तेनार्थो विसंवदति, भर्थेन विसंवदता चारित्रं ( विसंवदति ), चरणेन मोक्षः, मोक्षाभावे दीक्षा निरर्थिका । अथ पुनर्जीवलक्षणेन जीवं प्ररूपयति, अजीवलक्षणेन अजीवं, ततोऽनुयोगः, तस्य च कार्यस्य सिद्धिर्भवति इति अविकलोऽर्थावगमस्ततश्चरणवृद्धिः, ततो मोक्ष इति एष प्रथमदृष्टान्तः १. २ प्रतिष्ठाने नगरे शालिवाहनो राजा, स वर्षे वर्षे भृगुकच्छे नरवाहनं रुणद्धि, यदा च वर्षारात्रः प्राप्तो ( भवेत् ) तदा स्वकं नगरं प्रतियाति, एवं कालो व्रजति, अन्यदा तेन राज्ञा रोधकेन (रोद्धुं ) गलेन आस्थानमण्डपिकायां निष्ठ्यूतं, तस्य च प्रतिग्रहधारिणी कुब्जा, अपरिभोगा एषा भूमिः, नूनं राजा यातुकामः, तस्याश्च राजकुलगो यानशालिकः परिचितः, तथा तस्मै शिष्टं; स प्रगे यानानि प्रमाष्टर्य प्रवर्त्तितवान् For Private Personal Use Only Jain Education International www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy