________________
॥३०॥
भावश्यक-हारिभद्रीयवृत्तिः वश्यामचोपरिष्टादिति, अन्तो-विनाशा, भयस्यान्त इत्ययमेव पदविग्रहा, पदपृथकरणं पदविग्रह इति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवध-पापं सहावन सावध:-सपाप इत्यर्थी, युज्यत इति योगः-व्यापारस्तं, प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्य ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति 'चक्षिङ् व्यक्तायां पाचि' अस्य प्रत्यापूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावजीयये त्यत्र यावच्छब्दः परिमाणमर्यादावधारणवचना, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावजीवनमिति, मरणमर्यादाया आरान मरणकालमात्र एवेति, अवधारणे यावज्जीवनमेव तापत प्रत्याख्यामि, न तस्मात परत इत्यर्थः, जीवनं जीवेत्यर्य क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावजीवो यस्यां सा यावज्जीवा तया, 'त्रिविध मिति तिम्रो विधा यस्य सावधयोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाकायव्यापारलक्षणं, 'कायवाडानः कर्मयोगः' (तत्वा० अ० ६ सू० १) इति वचनात् , त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र 'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन्प्रत्यये मनः, तञ्चतुर्दा-नामस्थापनाद्रव्यभावः, द्रव्यमनस्तद्योग्यपुद्गलमयं, भावमनो मन्ता जीव एव, 'बच परिभाषणे' वचनम् उच्यतेवाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापनाः, 'चिम् चयने' चयन चीयते वाऽनेनेति “निवासचितिशरीरोपसमाधानेष्वादेश्च कः' (पा० ३-३-४१) इति कायः, जीवस्य निवासात् पुद्गलानां चितेः पुद्गलानामेव केषाश्चित् शरणात् तेषामेवावयवसमाधानात् कायः-शरीरं, सोऽपि चतुझे नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीवेन ये मुक्ता यावत्तं परिणामं न मुञ्चन्ति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावध योग न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संवध्यते, भयान्त इति पूर्ववत् , प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जगुप्से ?-'आत्मानम्' अतीतसावधयोगकारिणं, 'व्युत्सृजामीति विविधार्थो विशेषाथों वा विशब्दः उच्छब्दो भृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात् , आह च नियुक्तिकार:अक्खलिअसंहिआई वक्खाणचउकए दरिसिमि । सुत्तप्फासिअनिजुसिवित्थरत्थो इमो होइ ॥ १०१५ ॥ ___ व्याख्या-'अक्खलिआईत्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ?सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः ॥ १०१५ ॥
करणे १ भए अ२ अंते ३ सामाइअ ४ सव्वए अ५ वजे अ६।
जोगे ७ पञ्चक्खाणे ८ जावजीवाइ ९तिविहेणं १०॥ १०१६ ॥ न्याख्या करणं भयं च अन्तः सामायिकं सर्व च वर्ज च योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थ तु भाष्यगाथाभिय॑क्षेण प्रतिपादयिष्यतीति गाथासमासार्थः ॥ १.१६ ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह
नामं १ ठरणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६।
एसो खलु करणस्सा निक्खेवो छव्विहो होइ ॥ १५२॥ (भा०) व्याख्या-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽहजाणगभविअहरितं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीससपओगे ॥ १५३॥ (भा०) __ व्याख्या-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतोज्ञभव्यातिरिकं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थ:-कटनिर्वर्तकमयोमयं चित्रसंस्थानं पोल्लंकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वथतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात् , तथा च भाष्यकारेणाप्येतदेवाभ्यधायि-"सन्ना णामंति मई
संज्ञा नामेति मतिः।+ नियुक्तिगाथा इत्यपि * पाइष्टकादिः। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org