SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ मावश्यक-हारिभद्रीयवृत्तिः पतिव्रते ? ॥ १॥ निषिसयाणि आणत्ताणि । एवं दाहंपि विसेसओ सूमालियाए दुक्खाय फासिंदियं ॥ कि-'शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा । सुखार्थी सततं विद्वान्, शब्दे किमिति सङ्गवान् ? ॥१॥ पतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ॥२॥ उरगान गन्धदोषेण, परतन्त्रान् समीक्षधका । गन्धासको भवेत्कायखभावं वा न चिन्तयेत्॥३॥रसास्वादप्रसङ्गेन, मत्स्याधुत्सादनं यतः। ततो दुःखादिजनने, रमे कः सङ्गमामुयात् ॥४॥ स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः । अस्वातन्त्र्यं समीक्ष्यापि, कः स्यात्स्पर्शनसंवशः१॥५॥' इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् ॥ अधुना परीषहद्वारावसरः, तत्र 'मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहा' इति निर्वचनं, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव, तद्यथाक्षुपिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थः-'क्षुधातः शक्तिमान् साधुरेषणां नातिलइत्येत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् ॥ १ ॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ॥ २॥ शीताभिघातेऽपि यतिस्त्वग्वखत्राणवर्जितः । बासोऽकल्प्यं न गृहीयादग्निं नोज्ज्वालयेदपि ॥३॥ उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥ ४॥न दष्टो दंशमशकैखासं निर्विचवावाशप्तौ । एवं चोरपि विशेषतः सुकुमारिकायाः दुःखाच स्पर्शनेन्द्रियम् । द्वेषं मुनिम्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियस्ववित् ॥५॥ वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वसाधु वा । लाभालाभविचित्रत्वं, जाननाम्येन विप्लुतः ॥६॥ गच्छंस्तिष्ठनिषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्य, स्वस्थचेता भवेन्मुनिः ॥७॥ सङ्गपङ्कसुदुर्वाधाः, खियो मोक्षपथार्गलाः । चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ॥८॥ प्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥९॥श्मशानादिनिषघासु, ख्यादिकण्टकवर्जिते । उपसर्गाननिष्टेष्टानेकोऽभीरस्पृहः क्षमेत् ॥ १०॥ शुभाशुभासु शय्यासु, सुखदुःले समुस्थिते । सहेत सङ्गं नेयाञ्च, श्वस्त्याज्येति च भावयेत् ॥ ११॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्या ज्ञानायवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेष कदाचन ॥ १२ ॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः ॥ १३ ॥ परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येनेच्छेदगारिताम् ॥ १४ ॥ परकीयं परार्थ च, लभ्येतानादि नैव वा । लन्धेन माघेनिन्देवा, स्वपरान्नाप्यलाभतः ॥ १५॥ नोद्विजेद् रोगसम्प्राप्तो, न चाभीप्सेञ्चिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ॥ १६ ॥ अभूताल्पाणुचेलवे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेनेच्छेच तान मृदून ॥ १७ ॥ मलपङ्करजोदिग्धो, ग्रीष्मोष्णल्लेदनादपि । नोद्विजेत् सानमिच्छेद्वा, सहेतोद्वर्तयेन वा ॥ १८ ।। उत्थानं पूजनं दानं, स्पृहयेनात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽ. सत्कारितो न च ॥ १९ ॥ अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् । ज्ञानिनां ज्ञानमुद्रीक्ष्य, तथैवेत्यन्यथा न तु ॥२०॥ विरतस्तपसोपेतश्छद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षानैवेक्षे, नैवं स्यात् क्रमकालवित् ॥ २१ ॥ जिनास्तदुकं जीवो वा, धर्माधौं भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो प्रहात् ॥ २२ ॥ शारीरमानसानेव, स्वपरमेरितान्मुनिः।परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥ २३ ॥ ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥ २४ ॥ क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥२५॥ वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥२६॥ चतुर्दशेते विज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायस्य, च्छद्मस्थारागिणोऽपि च ॥ २७ ॥ क्षुत् पिपासा च शीतोष्णे, दंशश्वर्या वधो मलः । शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद् ॥ २८ ॥' इति । एष संक्षेपार्थः ॥ अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति । एत्थवि दवभावविभासा, दवपरीसहा इहलोयणिमित्तं जो सहइ परवसो वा बंधणाइसु, तत्थ उदाहरणं जहा चके सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयणिमित्तं अणाउलो सहइ, सेहि चेव उवणओ पसत्थो । अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, उपसज्यतेऽनेनेति वा उपसर्गः कर णसाधनः, उपसन्यतेऽसाविति वोपसर्गः कर्मसाधनः, स च प्रत्ययभेदाचतुर्विधः-दिव्यमानुषतर्यग्योन्यात्मसंवेदनाभेदात्, तस्थ दिवा चाउविहा-हासा पदोसा वीमंसा पुढोवेमाया, हासे खुडुगा अण्णं गामं भिक्खायरियाए गया, वाणमंतर अवापि इण्यभावविभाषा-अग्यपरीषहा इहलोकनिमित्तं यः सहते परवशो वा बन्धनादिभिः, तत्रोदाहरणं यथा चके सामाबिके इनपुरे इन्द्रनत्तस्य पुत्रः, भावपरीषहा यान् संसारब्युच्छेदनिमित्तमनाकुलः सहते, तेष्वेव उपनतः प्रशस्तः । २ तत्र दिव्याश्चतुर्विधाः-हास्यात् प्रवेषात् विमर्शात् पृथग्विमात्रया, हास्य क्षुल्लकाः अम्यं ग्राम भिक्षाचर्यायै गताः, व्यन्तरी Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy