SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ॥२५५॥ आवश्यक- हारिभद्रीयवृत्तिः जीवानां कतिथे भागे वर्तन्त इति, 'भाषे' ति कस्मिन् भावे ? 'अप्पाबहुं चेव' ति अस्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपअप्रतिपद्यमानकापेक्षयेति समासार्थः ॥ ८९५ ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्यद्वाराभिधित्सयाऽऽहसंतपयं पडिवन्ने पडिवज्जंते अ मग्गणं गइसुं १ | इंदिअ २ काए ३ वेए ४ जोर अ ५ कसाय ६ लेसासु ७ ॥८९६ ॥ सम्मत ८ नाण ९ दंसण १० संजय १९ उडवओगभ अ १२ आहारे १३ । भाग १४ परिस १५ पज्जन्त १६ सुहमे १७ सन्नी अ १८ भव १९ घरमे २० ॥ ८९७ ॥ व्याख्या - इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न वित्रियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहपलिआसंखिज्जइमे पडिवन्नो हुज (दा०२) खितलोगस्स । सप्तसु चउदस भागेस हुज (दा०३) फुसणावि एमेव व्याख्या- 'पलियासंखेजइमे पडिवनो होज्ज' त्ति इयं भावना - सूक्ष्मक्षेत्रपस्योपमस्य सङ्ख्यतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति ॥ द्वारम् ॥ 'खित्तलोगस्स सत्तसु 'चोहसभागेसु होज' ति गतार्थ, नवरमधोलोके पश्चस्विति ॥ द्वारम् ॥ 'फुसणावि एमेव' ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः॥८९८ द्वारं ॥ कालद्वारावयवार्थव्याचिख्यासयाऽऽह एवं पहुच हिडा तहेव नाणाजिभाण सव्वद्धा ( द्वारं ५ ) । अंतर पडुच एवं जहन्नमंतोमुहुसं तु ॥ ८९९ ॥ व्याख्या – एकं जीवं प्रतीत्याधस्तात् षटूपदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आह-'तहेव नाणाजीवाण सबद्धा भाणियचा' काका नीयते ॥ द्वारम् ॥ 'अंतर पडुच्च एगं जहन्नमन्तोमुहुर्त्त तु' कण्ठ्यं, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ ८९९ ॥ उकोसेणं चेयं अद्धापरिअहओ उ देसूणो । णाणाजीवे णत्थि उ (द्वारं६) भावे य भवे खओवसमे (द्वारं८) ॥ ९००॥ व्याख्या -उकोसेणं चेयं, तमेव दर्शयति- ' अद्धापरियहओ उ देसूणो णाणाजीवे णत्थि उ' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥ द्वारं ॥ 'भाषे य भवे खओवसमे' त्ति, प्राचुर्यमङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम्, औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ ८९० ॥ द्वारं ॥ भागद्वारं व्याचिख्यासुराह जीवाणsi भागो पडिवण्णो सेसना अनंतगुणा (द्वारं७) । वत्युं तऽरिहंताइ पञ्च भवे तेसिमो हेऊ ॥ ९०२ ॥ व्याख्या - जीवाणणन्तभागो पडिवण्णे सगा अपडिवन्नगा अनंतगुणत्ति ॥ द्वारम् ॥ अल्पबहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्धेन वस्तुद्वारनिरूपणायेदमाह - 'वस्तु' इति वस्तु द्रव्यं दलिकं योग्यमर्हमित्यनर्थान्तरं, वस्तु नमस्कारार्हा अर्हदादयः पश्चैव भवन्ति तेषां वस्तुत्वेन नमस्कारात्वेऽयं हेतुः - वक्ष्यमाणलक्षण इति गाथार्थः ॥ ९०१ ॥ अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयन्नाह - आरोवणाय भणा पुच्छा तह दार्येणा य निज्जर्वणा । नर्मुकारऽनर्मुकारे नोआइजुएँ व नवहा वा ॥ ९०२ ॥ व्याख्या - आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार ! आहोस्विन्नमस्कार एव जीवः १ इत्येवं परस्परावधारणम् आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणम् १, अजीवाद्व्यवच्छिद्य जीव एव नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना २, किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टस्त्वनमस्कार इति पृच्छा ३, अत्र प्रतिव्याकरणं दापना -- नमस्कारपरिणतः जीवों नमस्कारो नापरिणत इति ४, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति-दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमन मिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, यत आह- 'नमोक्कारऽनमोक्कारे णोआदिजुए व णवधा वा' तत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाच्चातुर्विध्यं, प्रकृतिः-स्वभावः शुद्धता यथा नमस्कार इति, स एव नआ सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः, उभयनिषेधात्तु नोअनमस्कार इति, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यः अन्यो वा, 'नोआइजुए व'ति नोआदियुक्तो वा नमस्कारः अनमस्कारश्च, अनेन भङ्गद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विवक्षया नमस्कारदेशः अनमस्कारो वा, देशसर्वनिषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, देशसर्व निषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः पूर्वोक्तानुसारेण प्रदर्शनीयः, 'नवधा वे' ति प्रागुक्ता पश्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थः ॥ ९०२ ॥ प्ररूपणाद्वारं गतम्, इदानीं निःशेषमिति, साम्प्रतं 'वत्थं तरहंताई पंच भवे तेसिमो हेउ' चि गाथाशकलोपन्यस्तमवस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy