SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ भावश्यक-हारिभद्रीयवृत्तिः अष्टी मला भवन्ति, तद्यथा-जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्व पाजीवस्य च ५जीवस्य चाजीवानां च ६ जीवानामजीवस्य च ७ जीवानामजीवानांच८, अत्रोदाहरणानि-“जीवस्ससो जिणस्सव अजीवस्स उजिजिंदपडिमाए। जीवाण जतीणं पिव अज्जीवाणं व पडिमाणं॥१॥जीवस्साजीवस्स य जइणोबिंबस्स चेगओ समयं जीवस्साजीवाण य जइणो पडिमाण गत्थं ॥ २ ॥ जीवाणमजीवस्स य जईण बिस्स गओ समयं । जीवाणमजीवाण य जईण पडिमाण गत्थं ॥३॥” सग्रहमतं तु नमःसामान्यमानं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चितु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्गं प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनान्तरत्वात् कर्तृस्वामिक एव, शब्दादि. मतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसौ, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राशेः, शब्दक्रियाव्यभिचारात्, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ॥ ८९२॥ कस्येति गतं, केन? इत्यधुना निरूप्यते-केन साधनेन साध्यते नमस्कारः, तत्रेयं गाथानाणावरणिजस्स य दसणमोहस्स तह खओषसमे । (दा०३)जीवमजीवे अहसु भंगेमुउ होइ सव्वत्थ ॥८९३॥ जीवस्य स जिनस्यैव भजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां पतीनामपि मजीवानां तु प्रतिमानाम् ॥१॥जीवसाजीवखरयतेविम्बस्य चैकतः समकम् । जीवस्थाजीवानां च यतेः प्रतिमाना चैकत्र ॥ २ ॥ जीवामामजीपख यतीना बिम्बस कितः समकम् । जीवानामजीवानां पतीनां प्रतिमामा का __ व्याख्या ज्ञानावरणीयस्य' इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्तर्गतत्वात् तस्य, तथा सम्यगर्दशनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य चक्षयोपशमेन साध्यते, प्राकृतशैल्या सृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति-सर्वोपघातीनि देशोपघातीनि च, तत्र सर्वेषु सर्वपातिपूपातितेषु देशोपघातिनां च प्रतिसमयं विशुद्ध्य पेक्षं भागैरनन्तैः क्षयमुपगच्छद्भिविमुच्यमानः क्रमेण प्रथममक्षरं लभते, एवमेकैकवर्णप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् । गतं केनेति द्वारं, कस्मिन्नित्यधुना, तत्र कस्मिमिति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापकः तैऔपश्लेषिकः सामीप्यको वैषयिकश्च, तत्र व्यापकः तिलेषु तैलम्, औपश्लेषिक:-कटे आस्ते, सामीप्यकः-गङ्गायां घोषः, वैषयिकः-रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि च साक्षादिदं गाथाशकलं-'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वारस्याभूतस्यैवागमः, तत्त्वतस्तु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हिजीवगुणत्वाजीवः, स च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ तदाऽजीव, यदोभयाऽऽत्मके तदा जीवाजीवयो, एवमेकवचनबहुवचनभेदादष्टौ भङ्गाः प्रागुक्ता एव योग्याः। आह-पूज्यस्य नमस्कार इति नैगमव्यवहारौ, स एव च किमिस्याधारो न भवति ? येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव भवितव्यम्, अन्यत्रापि भावात् , यथा देवदत्तस्य धाम्यं क्षेत्र इति, तुशब्दाच्छेपनयाक्षेपः कृतः, संक्षेपतो दर्श्यते-तत्र सङ्घहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रे अभीच्छति, कश्चित्तद्धर्मस्वाजीव इति, जुसूत्रस्तु जीवगुणत्वाजीव एव मन्यते, आह-ऋजुसूत्रोऽन्याधारमपीच्छत्येव, 'आकाशे वसती' ति वचनाद्, उच्यते, द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्ते ज्ञानरूपे जीव एवेच्छन्ति नाम्यत्र, न वा शब्दक्रियारूपमिति गाथार्थः ॥ ८९३ ॥ कस्मिन्निति द्वारमुक्त, साम्प्रतं कियश्चिरमसौ भवतीति निरूप्यते, तत्रेयं गायाउवओग पडुच्चंतोमुलुत्त लद्धीइ होइ उ जहन्नो । उकोसडिइ शाबहिसागरा (दा०५)ऽरिहाइ पंचविहो।।८९४॥ व्याख्या-उपयोगं प्रतीत्य अन्तर्मुहूर्त स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, 'लडीए होइ उ जहन्नो' लब्धेश्च क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिलब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एक जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योपयोगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लग्धितश्च सर्वकालमिति द्वारम्।। कतिविधो वा ? इत्यस्य प्रश्नस्य निर्वचनार्थो गाथावयवः-'अरिहाइ पंचविहोत्ति अर्हत्सिद्धाचार्योपाध्यायसाधुपदादिसनिपातात् पश्चविधार्थसम्बन्धात् अहंदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमःपदस्थाभिसम्बन्धमाहेति गाथार्थः ॥ ८९४ ॥ द्वारम् ॥ गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथासंतपयपरूवणया १दव्वपमाणंच २ खित्त३ फुसणा य४।कालो अ५ अंतरं ६ भाग७ भाष ८ अप्पाबहुंचेव ९ व्याख्या-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याणि ?, तथा 'क्षेत्रम्' इति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy