________________
भाषश्यक-हारिभद्रीयवृत्तिः
२४॥ व्याख्या-अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा 'विनये' अञ्जलिप्रग्रहादाविति, 'पराक्रमे' कषायजये सति, साधुसेवनायां च सत्यां कथञ्चित् तकियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेश्च विरतेश्चेति गाथार्थः ॥ ८४८ ॥ कथमिति द्वारं गतं । तदित्थं लब्धं सत् कियच्चिर भवति कालं !, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहसम्मत्तस्म सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुवकोडी देसूणा होइ उकोसा ॥ ८४९ ॥
व्याख्या-सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस्स तिण्णञ्चुए व छावही । णरजम्मपुवकोडी मुहुत्तमुक्कोसओ अहियं ॥१॥' 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, 'उक्कोस'त्ति उत्कृष्टस्थितिकाला, जघन्यतस्त्वायत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तरमेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहूर्तिक एव, नियमितप्राणातिपातादिनिवृत्तिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः ॥ ८४९ ॥ द्वारम् ॥ अधुना कइत्तिहारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारःप्राकप्रतिपन्नाः प्रतिपतिता वेति. अत्र प्रतिपद्यमानकेभ्यः प्राकप्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाह
सम्मत्सदेसविरया पलियस्स असंखभागमेत्ता उ । सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ ८५०॥ व्याख्या-सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावना-क्षेत्रपलितासङ्ख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्गोयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुए'त्ति इह संवर्तितचतुरखीकृतलोकैकप्रदेशनिवृत्ता सप्तरजवात्मिका श्रेणिः परिगृह्यते, तदसोयभाग इति, तस्याः खल्वसङ्ख्ययभागे यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्य श्रुते-अक्षरात्मके सम्यगमिथ्यात्वानुगते विचार्ये प्रतिपत्तारो भवन्तीति हदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई' सहस्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः॥ ८५०॥ प्राक्मतिपन्नानिदानी प्रतिपादयन्नाहसम्मत्तदेसविरया पडिवना संपई असंखेज्जा । संखेना य चरिसे तीसुषि पडिया अर्णतगुणा ॥ ८५१ ॥
व्याख्या-सम्यक्त्वदेश विरताः प्रतिपन्नाः 'साम्प्रतं' वर्तमानसमयेऽसोया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्रामतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ' इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं
वाक्षरात्मकाविशिष्ट श्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्वात्मकस्यासयभागमात्रा, असोयासु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्ग्येयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्स्वेभ्यः पतिताः 'अणंतगुण'त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकमाक्प्रतिपन्नेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, तदसपेयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्य श्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चार्द्ध व्याख्येयं सेसा संसारत्था सुयपरिवडिया हु ते सधे ॥८५२॥सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः॥८५२ ॥ द्वारन् । अधुनाऽन्तरद्वारावयवार्थ उच्यते-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते ?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तम् , उत्कृष्टं त्वाह
कालमणंतं च सुए अद्धापरियओ उ देसूणो । आसायणबहुलाणं उकोसं अंतरं होह ॥ ८५३ ॥ व्याख्या-एक जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात् , 'श्रुते' सामान्य.तोऽक्षरात्मके 'उकोसं अंतरं होई' त्ति योगः। तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्ट स्वाह'उपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ?-उत्कृष्टमन्तरं भवतीति योगः, केषाम् ?-आशातनाबहुलानाम् , उकंच-"तित्थ. गरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो बहुसो अर्णतसंसारिओ होइ ॥१॥" ति गाथार्थः ॥ ८५३ ॥ द्वारं ॥ साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको व्यादयो वा सामायिक प्रतिपद्यन्त इत्याहसम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । असमया चरित्ते सव्वेसु जहन्न दो समया ॥ ८५४ ॥
व्याख्या-'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण . प्रतिपत्तिकालः आव. लिकाअसोयभागमात्रा समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु
+भपाति प्र.तीर्थकरं प्रवचनं श्रुतमाचार्य गणधरं महर्धिकम् । आशातयन् बहुशोऽनन्तसांसारिको भवति ॥2॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org