________________
॥२२४॥
मावश्यक-हारिभद्रीयवृत्तिः न तूपात्तकर्नप्रवाहापेक्षयेति, आह च भाष्यकार:-"ण जहण्णाउठिईए पडिवजा व पुवपडिवण्णो । सेसे पुष्पवण्णो देसविरतिवजिए होज ॥१॥" ति गाथार्थः ॥ ८१७ ॥ द्वारं ॥ साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं ब्याचिल्यासुराहचउरोऽवि तिविहवेदेचउसुविसपणासु होह पडिवत्ती। हेटा जहा कसाएसू वणियंत
व्याख्या-'चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथाऽपि, सन्तीति वाक्य शेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात् , क्षीणवेदःक्षपको,न तु प्रतिपद्यमानकः।द्वारं । तथा चतसृष्वपि संज्ञासुआहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति. न न भवति. इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कायेषु वर्णितम् , इहापि तथैव वर्णितव्यं, समुदायार्थस्वयम्-सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ ८१८ ॥ गतं द्वारत्रयं, साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽहसंखिजाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेण य नाणी पडिवजई चउरो॥ ८१९॥
व्याख्या-सङ्ख्येयायुर्नरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति भजना-विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्ख्येयवर्षायुषाम् , इयं भावना-विवक्षितकालेऽसङ्ख्येयवर्षायुपां सम्यक्त्व
न जघन्यायुःस्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रतिपनो देशविरतिवर्जिते भवेत् ॥ १॥ श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य णाणी पडिवजए चउरो'त्ति ओघेन-सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिक श्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नावस्त्येति, उपरितनसामायिकद्वयस्थापि प्रतिपद्यमानकः सम्भवति. इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमान कः, देशविरतिसामायिकं तु न प्रतिपद्यते, गुणपूर्वकत्वात् तदवातेः, स्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते तीर्थकृन्, उक्तं च-“पडिवैनंमि चरित्ते चउणाणी जाव छउमत्थो" त्ति, भवस्थः केवलो पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ ८१९ ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽहचउरोऽवि तिविहजोगे उखओगदुगंमि चउर पडिवजे । ओरालिए चउकं सम्मसुय विउव्यिए भयणा ॥८२०॥ व्याख्या-'चत्वार्यपि सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाकायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षित
ग्रंथाग्रम् ८५०० ) प्राकप्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वावुभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात् ,
प्रतिपने चारित्रे चतुर्तानी यावच्छन्नस्थः मनोयोगे केवले न किञ्चित् , तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाचं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम् । द्वारम् । 'उवओगदुगंमि चउरो पडिवजे ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राकप्रतिपमस्तु विद्यत एव, अत्राह'सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागम्स्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकारोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार:-"ऊसरदेसं दहेल्लयं च विज्झाइ वणदयो पप्प । इय मिच्छस्स अणुदए उवसमसंमं लहइ जीवो ॥१॥" अवस्थितपरिणामताचास्य-'जं मिच्छस्साणदओ ण हायए तेण तस्स परिणामो। पुण सयमुवसंतं ण वहुएऽवहितो तेणं ॥२॥दारं । 'ओरालिए चउक्कं सम्मसुत विउधिए भयण त्ति औदारिके शरीरे सामायिकचतु
कमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोक्रियशरीरे भजना-विकल्पना कार्या, एतदुक्तं भवति-सम्यक्त्वश्रुतयोक्रियशरीरी प्रतिपद्यमानका पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्राय कादिः श्रमणो वा, न प्रतिपद्यमानका, प्रमत्तत्वात् , शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः ॥८२० द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह
अपरदेशं दग्धं च विध्याति बमदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः॥1॥२ यन्मिथ्यात्वस्थानुदयो न हीयते तेग तल परिणामः पलुनः सदुपशान्तं वर्ष अवस्थितन ॥1॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org