SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥२२३॥ मावश्यक हारिभद्रीयवृत्तिः 'विरतिः' समग्रचारित्रात्मिका, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च' देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः ॥ ८१२ ।। भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाSSह raftडिओ उ जीवो पडिवजह सो चउण्हमण्णयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवजे ॥ ८१३|| व्याख्या - भवसिद्धिको भव्योऽभिधीयते भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णा' सम्यक्त्व सामायिकादीनाम् 'अन्यतरत्' एकं द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्थं प्रतिपाद्यते, न तु निश्चयतः केवलसम्यक्त्व सामायिकसभवोsस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संयपि, यत आह-संनि पडिवज्जे, पूर्वप्रतिपन्नकस्तु भव्य मंजिषु विद्यत एत्र, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राक्प्रतिपन्नान् वाडश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके' सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभये भ पुनः शब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ ८१३ ॥ गर्त द्वारद्वयम् ॥ उच्छ्रासदृष्टिद्वारद्वयाभिधित्सयाऽऽह ऊसासगणीसासग मीसग पडिसेह दुविह पडिवण्णो । दिट्ठीइ दोणया खलु वबहारो निच्छओ वेव ||८१४|| दारं व्याख्या -- उच्छ्रसितीति उच्छ्रासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याध्याऽपर्याप्तो भव्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' ति स एव द्वि सम्यक्त्वश्रुत सामायिकस्य प्रतिपन्नः - पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः सिद्धः, तत्र चतुर्णामप्युभयथापि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवेति । दृष्टौ विचार्यमाणायां नयौ खलु विचारकौ - व्यवहारो निश्चयश्चैव तत्राद्यस्य सामायिकरहितः मामायिकं प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः ॥ ८१४ ॥ गतं द्वारद्वयं साम्प्रतमाहारकपर्याप्त द्वारद्वयं प्रतिपादयन्नाह - आहारओ उ जीवो पडिवज्जइ सो चउण्हमण्णयरं । एमेव य पज्जसो सम्मन्तसुए सिया इयरो ॥ ८१५ ।। व्याख्या - आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः पड़भिरप्याहारादिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरो' ति इतर:- अनाहारकोsपर्याप्तकश्च तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात् भवेत् पूर्वप्रतिपन्नः प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घात शैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वयस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ॥ ८१५ ॥ गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वयव्याचिख्यासयेदमाहगिड़ाए भावओऽवि य जागरमाणो चउण्ड्मण्णयरं । अंडयपोयजराज्य तिग तिग चउरो भवे कमसो ॥ ८१६॥ व्याख्या - इह सुप्तो द्विविधः - द्रव्यसुप्तो भावसुतश्च, एवं जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुतस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णा सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि १ - भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति, निद्रासुतस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, मात्र सुप्तस्तूभय विकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्-अण्डजपोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं ‘तिग तिग चउरो भवे कमलो' त्ति अण्डजाः - हंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः - हस्त्यादयोऽप्येवमेव, जरायुजाः - मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्वयोरेवमिति गाथार्थः ॥ ८१६ || स्थितिद्वारमधुनाऽऽह उको सयहितीए पडिवजंते य णत्थि पडिवण्णो । अजहण्णमणुक्कोसे पडिवजंते य पडिवण्णे ॥ ८१७ ॥ व्याख्या - आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिर्जीवश्चतुर्णामपि सामायिकानां 'पडिवज्र्जते य णत्थि पडिऋण्णो' त्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योत्कृष्टः स्थितिशब्दलोपात्, 'पडिवज्जंते य पडिवण्णो' त्ति, स हि चतुर्णा - मपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः क्षुल्लकभवगत इति शेषकर्मराशि जघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्यादू, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थिति कर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy