SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥२०८॥ मावश्यक-नारिभद्रीपवृत्तिः दमधीयते तद्वेदिनो वा 'तदधीते तद्वेत्ती' (पा०४-२-५९) त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः ४। 'दग'त्ति उत्तरपदलोरादेकसमये द्वे किये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवग्ररूपिण इत्यर्थः ५ । 'तिग' त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येपा ते त्रैराशिकाः, राशित्रयख्यापका इति भावना ६ । 'अबद्धिगा चेव' त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमबद्धम्, अब. द्धमेषामस्ति विदन्ति वेत्यवद्धिकाः, स्पृष्ट कर्मविपाकप्ररूपका इति हृदयम् ७ । 'सत्तेते निण्हया खलु तित्थंमि उ वद्धमा. णस्स' त्ति सप्तैते निवाः खलु, निह्नव इति कोऽर्थः ?-स्वप्रपञ्चतस्तीर्थकरभाषितं निहतेऽर्थ पचाद्यचि (नन्दिग्रहिपचादिभ्योन्युणिन्यचः पा० ३-१-१३४ ) ति निहवो-मिथ्यादृष्टिः, उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥ १॥” खल्विति विशेषणे, किं विशिनष्टि-अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-'एतेसिं निग्गमणं वोच्छामि अहाणुपुबीए' ति गाथार्थः ॥ साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहबहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमिसाओ॥७७९॥ ___ व्याख्या-बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाच, तिष्यगुप्तादुरपन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः॥ गंगाओ दोकिरिया छलुगा तेरासियाण उत्पत्ती । घेरा य गोहमाहिल पुट्ठमबद्धं परूविंति ॥ ७८०॥ व्याख्या-गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराच गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठमबद्धं परूविंसु' वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् सञ्जाता इति गाथार्थः॥ साम्प्रतं येषु पुरेषूत्पन्नास्त एते निवास्तानि प्रतिपादयन्नाह सावत्थी उसभपुर सेयबिया मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराइं ॥७८१ ॥ व्याख्या-श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च नगराणि, निह्न वानां यथायोगं प्रभवस्थानानि, वक्ष्यमाणभिन्नद्रव्यलिङ्गमिथ्यादृष्टिबोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ॥ भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निहवः समुत्पन्न इति प्रतिपादयन्नाहचोदस सोलस वासा चोइसवीसुत्सरा य दोणि सया । महाबीसा य दुबे पंचेव सया उ चोयाला ॥ ७८२ ॥ ___ व्याख्या-चतुर्दशषोडशवर्षाणि तथा 'चोइसवीसुत्तरा य दोनि सय' ति चतुर्दशाधिके वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पश्चैव शतानि चतुश्चत्वारिंशदधिकानि, इति गाथार्थः॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति ॥ पंच सया चुलसीया छच्चेव सया णवोत्तरा होति । णाणुप्पत्तीय दुवे उप्पण्णा णिव्वुए सेसा ॥७८३ ॥ व्याख्या-पञ्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निवृत्ते भगवति, यथोक्तकाले चातिकान्ते शेषाः सस्वव्यक्तादय इति, बोटिकप्रभवकालाभिधानं लापवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् यथाक्रमं स्पष्टयमाहचोइस वासाणि तया जिणेण उप्पाडियरसणाणस्सातोबहुरयाण दिट्टीसावत्थीए समुप्पण्णा॥१२५॥(मू०भा०) व्याख्या-चतुर्दशवर्षाणि नदा 'जिनेन' वीरेणोत्पादितम्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्या समुत्पन्नेति गाथार्थः ॥ यथोत्पन्ना तथोपदर्शयन् सनहगाथामाहजेट्ठा सुदंसण जमालिऽणोज सावत्थितेंदुगुजाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्तूण।।१२६॥(मू०भा०) ___ व्याख्या-कुण्डपुरं नगरं, तत्थ जमाली सामिस्स भाइणिजो, सो सामिस्स मूले पंचसयपरिवारो पबइओ, तस्स भजा सामिणो दुहिता, तीसे नामाणि जेत्ति वा सुदंसणत्ति वा अणोजत्ति वा, सावि सहस्सपरिवारा अणुपबइया, जहा पण्णत्तीए तहा भाणिय, एकारसंगा अहि ज्जिया, सामि आपुच्छिऊण पंचसयपरिवारो जमाली सावत्थी गतो, तत्थ तेंदुगे उज्जाणे कोहए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगी उप्पन्नो, न तरइ निसनो अच्छिउं, तो समणे भणियाइओ-सज्जासंथारयं करेह, ते काउमारद्धा॥ अत्रान्तरे जमालिदाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न खपुर मगर, तत्र समावि खामिमो भागिनेयः, स खामिबो मूले पशतपरीवारः प्रबजितः, तस्य भायो स्वामिनो दुहिता, तसा नामानिबेहेति वा सुवर्णमेति वा मनपति बा, साऽपि सहस्रपरिवारा अनुप्रवाजिता, यथा प्रज्ञप्तौ तथा भवितव्यम्, एकादशाहान्यधीतानि, स्वामिनमाच्या पातपरीवारो जमालिः भावसी गतः, सतिन्दुक उचाने कोष्टके पैसे समवस्तः, तत्र तस्यान्तप्रान्तै रोग सत्पा, न शक्रोति निषण्णः स्वातुं, ततः श्रमणान् भणितवान्-शव्यासंसारकं कुरुत, ते कर्तुमारग्धाः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy