________________
भावश्यक-हारिभद्रीयवृत्तिः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणादू जरत्पशाटिकापाटनदृष्टान्ताच अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रही तु पृथक् पृथग अन्तर्मुहर्तमानं कालं भवत इति विज्ञातव्यो। इंडा चावायश्च ईहावायौ, प्राकृतशैल्या बहवचनं, उक्तंच-"दुषयणे वहुवयणं छठ्ठीविहत्तीऍ भिण्णइ चउत्थी। जह हत्था तह पाया, णमोऽत्थु देवाहिदेवाणं ॥१॥” तावीहावायौ मुहूर्ताध ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्याधं तु मुहूर्ताध, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-व्यवहारापेक्षया एतद् मुहूर्तार्धमुक्तं, तत्त्वतस्तु अन्तमुहूर्त्तमवसेयमिति । अन्ये स्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासत्वयनसंवत्सरादय इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः पक्षमासवयनादय इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तमुहर्त च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवायोत्तरकालं अविच्युतिरूपा- अन्तर्महतं भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवोयुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥४॥
भाष्यकारादिव्याख्यानात्. २ बहुवचन द्विवचने षष्ठीविभक्तौ भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ३ "अवाजोगृकोसे" इत्यादिवचनावपवर्तनासंभवात्तद्रहितानामसंख्येयायुषामितिदर्शनाय पल्योपमेत्यादि. *जीर्यत. ५-६ + ज्ञातव्यौ १-२-३-४५ बहुवयणेण दुवयणं 1-1-1-11 भण्णए ५-६.
इत्थमवप्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहपुढे सुणेइ सई रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥५॥
व्याख्या-आह-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव. किमर्थ पनरयं प्रयास इति, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इत्य दोषः । तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत् , शृणोति गृह्णाति उपलभत इति पर्यायाः, कम् ?-शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातं, इदमत्र हृदयम्-तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणाप्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपल भत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ?-अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते प्रायत इति गन्धस्तं, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्टं नैवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो 'बद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टबद्धं । आह-यद्बद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य
चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽर्थावग्रहसद्धावादस्त्येव पटुतरतेति प्राय इति. २ स्पर्शाभावे बन्धाभावसत्वेऽपि स्पष्टस्वार्थ मेतत् , प्राणादीन्द्रियेभ्यो निपुणताख्यानाय वा. * मास्तीदम् --२-३-४. बन्धायोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति। त्रिप्रकाराश्च श्रोतारो भवन्ति केचिदू उर्घाटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपश्चितज्ञा इति, तत्र प्रपश्चितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः, स्पृष्टं च तद्वद्धं च स्पृष्टबद्धं, तत्र स्पृष्टं गन्धादि विशेष्यं, बद्धमिति च विशेषणं । आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न तत्स्पृष्टरवव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति,न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो, यथा अन्द्रव्यं पृथिवी द्रव्यमिति, भावनाअब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब् चीनबू 'चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम्-आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घाणादीनां चापटुत्वात् गृहाति निश्चिनोति घ्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् ।
आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्य. विषयः१, कियतो वा देशादागतं श्रोत्रादि शब्दादि गृहातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्यतः खल्वकुलासंख्येयमात्राद्देशात् , उत्कृष्टतस्तु द्वादशभ्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्राभ्यधिकव्यवस्थितं इति, घ्राणरसनस्पर्शनानि तु जघन्येनाकुलासंख्येयभागमात्रा
श्रोत्रापेक्षयाऽपि २ पुनःशब्देन विशेषितेऽस्पृष्टरवे या भणितिस्तदपेक्षया प्राक् प्रश्नः, समग्रगाथापेक्षया विषयक्षेत्रपरिमाणानार्थश्च द्वितीय इति *वा. बेति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org