________________
मावश्यक-हारिभद्रीयवृत्तिः पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशेषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, 'एवं' अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदा विकल्पा अंशा इत्यनान्तरं, त एव वस्तूनि भेदवस्तूनि, कथम् !, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काका नीयते-एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्येति गाथार्थः ॥२॥ इदानीमनन्तरोपन्यस्तानाम वग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाह
अस्थाणं ओगहणमि उग्गहो तह वियारणे ईहा । ववसायंमि अवाओ धरणंमि य धारणं पिति ॥३॥ व्याख्या-तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् , ते च रूपादयः, तेषां अर्थानां, प्रथम दर्शनानन्तरं ग्रहणं अवग्रहणं । अवग्रहं झुवत इतियोगः । आह-वस्तुनः सामान्य विशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथम दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात, दर्शनस्य चाल्पावरण व्यञ्जनावग्रहोऽर्थावप्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः ?, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तश्च उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो
(अत्याणं ओग्गहणं, उमाहं तह वियालणं ईहं । ववसायं च भवायं, धरणं पुण धारणं विति ॥३॥)* क्रम दर्शनार्थः + धरणं पुण। प्रहणं भवनहं व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्रा. प्तकारित्वं चानयोः "पुढे सुणेइ सदं रूवं पुण पासई अपुठं तु” इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस. मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः । 'तथा' इत्यानन्तर्ये 'विचारणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति संबन्धः । एतदुक्तं भवति- अवग्रहादुत्तीर्णः अवायात्पूर्व सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषत्यागाभिमखश्च प्रायो मधरस्वादयः शन शब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, तं व्यवसायं च, अर्थानामिति वर्त्तते, अवार्य ब्रुवत इति संसर्गः, एतदुक्तं भवतिशाङ्क एवायं शार्ङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावार्थ ब्रुवत इति भावार्थः । धृतिर्धरणं, अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्यमाह, इरथं तीर्थकरगणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिलमांस-सर्पोत्पलनालादौ इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वमे शब्दादिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः,
'गाथा ५२ चक्षुरादीनां क्रमशो दृष्टान्तदर्शनात् कोष्टपुटाख्यो गन्धद्रव्यविशेषः ३ स्वमात्. * अप्राप्यकारिवात् ५. वनावना तस्य नयनमनोवर्जेन्द्रियसंभवात् , अर्थावग्रहस्तु पोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येक षट्प्रकारा एवेति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति । अन्ये त्वेवं पठन्ति-'अस्थाणं उग्गहणमि
उग्गहों' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे-“अगणिं च खलु पुट्ठा एगे संघायमायजंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थ:-अग्नौ च पतिता 'एके' शलभादयः 'संघातमापद्यन्ते' अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः,तस्मादू अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥ ३ ॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह--
'उग्गह इकं समयं ईहावाया । मुहुप्तमहं तु । कालमसंखं संखं च धारणा होइ णायवा ॥४॥ व्याख्या-तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एक समयं भवतीति संबन्धः, तत्र कालः
मोइन्द्रियस्यापि प्रहणमुपलक्षणात् , अन्यथा न स्युर्मेदाः षटू , इन्द्रियत्वं वाभिप्रेतमन्त्र तस्याभ्यन्तरनिर्वृत्यन्वितत्वात्. २ ज्ञायतेऽनेन भाचाराव्याख्या श्रीमता कालात्याक्तनीति ३ अर्थावग्रहो द्विधा जघन्य उत्कृष्ट बाआद्यो नैश्चयिक एवेतरः सांव्यवहारिक इति जघन्यो नैश्चयिक इति प्रोचुः, व्याख्यानतो विशेषप्रतिपत्तिनं हि संदेहादलक्षणमिति न्यायात्. 'एवेत्यर्थः, संक. सवग्गहो. 'उम्गहु (नि.३) मुहुत्तमन्तं तु (वृ.)
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org