SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥११४॥ मावश्यक-हारिभद्रीयत्तिा णित्ता परिणिषुडो य । आइच्चजसो सक्केणाभिसित्तो, एवमट्टपुरिसजुगाणि अभिसित्ताणि। उक्तो भावा(गाथा)र्थः, साम्प्रतमक्षरगमनिका-आदर्शकगृहे प्रवेशः, कस्यो 'भरहेत्ति' भरतस्य प्राकृतशैल्या षष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गुलीयस्य बभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दानिवृत्तश्चेत्यक्षरार्थः॥४३६॥ उक्तमानुपङ्गिकं इदानी प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति-तत्र पुच्छताण कहेइ उवहिए देह साहुणो सीसे । गेलन्नि अपडिअरणं कबिला इत्थंपि इहयंपि ॥४३७॥ गमनिका-पृच्छतां कथयति,उपस्थितान् ददाति साधुभ्यः शिष्यान् , ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ:-स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निवृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा स ग्लानः संवृत्तः, साधवोsप्यसंयतत्वान्न प्रतिजापति, स चिन्तयति-निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति, कथिते साधुधर्मे स आह-यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह-पापोऽहं, 'लोएंदिये'त्यादि विभाषा पूर्ववत, कपिलोऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह-तथापि किं भवदर्शने नास्त्येव धर्म इति, मरीचिरपिप्रचरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह-'कविला एत्थंपित्ति' अपिशब्दस्यैवकारार्थत्वात् निरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ ४३७ ॥ स ह्येवमा परिनिवृतश्च । मादित्ययशाः शक्रेणाभिषिक्तः, एवमष्टपुरुषयुगान्यभिषिक्तानि । कर्ण्य तत्सकाश एव प्रबजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैत्रिं कर्म बद्धमिति ॥ अमुमेवार्थ प्रतिपादयन्नाह दुम्भासिएण इक्केण मरीई दुक्खसायरं पत्तो। भमिओ कोडाकोडि सागरसरिनामधेजाणं ॥ ४३८ ॥ सम्मलं संसारो नीआगोतं च कासि तिवइंमि । अपडिकतो बंभे कविलो अंतद्धिओ कहए॥४३९॥ प्रथमगाथागमनिका-'दुर्भापितेनैकेन'उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तःभ्रान्तः कोटीनां कोटी कोटीकोटी तां, केषामित्याह-'सागरसरिनामधेजाणंति' सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्थः। द्वितीयगाथागमनिका-'तन्मूलं' दु. र्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपयां' प्राग्व्यावर्णितस्वरूपायामिति। अपडिकंतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपास्य तस्मात् दुर्भाषितात् गर्वाञ्च 'अप्रतिक्रान्तः' अनि लोके दशसागरोपमस्थितिःदेवःसंजात इति। कपिलोऽपि ग्रन्धार्थपरिज्ञानशून्य एव तहर्शितक्रियारतो विजहार. आसुरिनामाच शिष्योऽनेन प्रवाजित इति, तस्य स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुराग. तत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स शुत्पत्तिसमनन्तरमेव अवधि प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनेषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्वं जगाद, आह च-कपिलो अंतद्धिओ कहए' कपिलः अन्तर्हितः कथितवान् , किम् ?-अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः-"प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥१॥" इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थः ॥ ४३८-४३९ ॥ इक्खागेसु मरीई चउरासीई अबंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ ४४० ॥ गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्कं पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्युत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीति पूर्वशतसहस्राण्यायुष्कमनुपाल्य 'संसारेत्ति' तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः॥४४०॥ संसारे कियन्तमपि कालमटित्वास्थूणायां नगर्या जात इति, अमुमेवार्थ 'थूणाई'त्यादिना प्रतिपादयति थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमि ॥४४१॥ व्याख्या-स्थूणायां नगर्या पुष्पमित्रो नाम ब्राह्मणः संजातः 'आउं बावत्तरि सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रन्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजघन्योत्कृष्टस्थितिः समुत्पन्न इति। 'चेइअ अग्गिजोओ चोवट्ठीसाणकप्पमीति' सौधर्माच्चयतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत् , परिव्राट् च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः॥४४१॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy