________________
॥११॥
मावश्पक-हारिभद्रीयवृत्तिः गमनिका-'तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य 'पितर' तीर्थकर मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउँ जाइत्ति' मरीचिं याति किमर्थम् ?-अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः ॥ ४२५ ॥ सो विणएण उवगओकाऊण पयाहिणंच तिक्खुत्तो। वंदा अभित्थुणंतोइमाहि महुराहि वग्गूहिं ॥४२६॥
गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदक्षिणं च 'तिक्खुत्तोति विकृत्वः तिम्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः 'मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ ४२६ ॥ लाहा हु ते सुलडा जंसि तुमं धम्मचकवट्टीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ॥४२७ ॥
गमनिका--'लाभाः' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ ४२७ ॥ तथा
आहगरु० (४२३ ) पूर्ववत् ज्ञेया । एकान्तसम्यग्दर्शनानुरञ्जितहदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोचतो भरत एवाह
..मुपगत:
णावि अ पारिव्बज बंदामि अहं इमं च ते जम्मं । जे होहिसि तिस्थयरो अपछिमो तेण बंदामि ॥४२८॥
गमनिका-नापि च परिमाजामिदं पारिवाजं वदामि अहं इदं च ते जम्म, किन्तु यद्रविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः ॥ ४२८ ॥ तथा- . एषणहं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । मापुरिएकण पिअरं विणीअणगरि अह पविठ्ठो ॥ ४२९ ॥
गमनिका-एवं स्तुत्वा 'अहमिति निपातः पूरणार्थो वर्तते, करवा प्रदक्षिणां च त्रिकृत्वः आपृच्छय 'पितरं' ऋषभदेवं 'विनीतनगरी' अयोध्या 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः ॥ ४२९ ॥ अत्रान्तरेतब्वपर्ण सोजणं तिवई आप्फोडिऊण तिक्खुत्तो। अन्महिमजायहरिसो तस्थ मरीई इमं भणइ ॥४३०॥
गमनिका-तस्य-भरतस्य वचनं तवचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यगतमलवत्, तथा आस्फोव्य त्रिकृत्वा-तिस्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिः 'इदं वक्ष्यमाणलक्षणं भणति, वर्तमाननिर्देशप्रयोजन प्राग्वदिति गाथार्थः ॥ ४३०॥ जह वासुदेख पढमो भूआइ विदेहि यशवहितं । परमो तित्थयराणं हो अलं इत्ति मज्म ।। ४३१ ॥
गमनिका-यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि, तथा 'घरमः' पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावम्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्या अन्येनेति । पाठान्तरं वा 'अहो मए पत्ति लद्धं' ति गाथार्थः ॥ ४३१॥ भइयं च दसाराणं पिमा य मे चमवाहिषसस्म । भलो तिस्थयराणं, अहो कुलं उत्तम मजा ॥ ४३२॥
गमनिका-अहमेव, चशब्दस्यैवकारार्थत्वात्, किम् !, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः। तथा 'आर्यक:' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ ४३२ ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽहआह भगवं भवमहणो पुव्वाणमणूणगं सपसहस्सं । अणुपुब्धि विहरिऊणं पत्तो अट्ठावयं सेलं ॥ ४३३ ॥
गमनिका-अथ भगवान् भवमथनः पूर्वाणामन्यून शतसहस्र आनुपूळ विहत्य प्रायोऽष्टापदं शैलं, भावार्थः सुगम एवेति गाथार्थः॥४३॥ अट्ठावयंमि सेले घउदसमत्तेण सो महरिसीणं । दसहि सहस्सेहि समं निष्वाणमणुत्तरं पत्तो ॥ ४३४ ॥
गमनिका-अष्टापदे शैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थः सुगम एव, नवरं चतुर्दशभक्तं-पात्रोपवासः । भगवन्तं चाष्टापदप्राप्त अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्यामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूढाः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोचते-जाव य देवावासो जाव य अहावओ नगवरिंदो। देवेहि य देवीहि य अविरहियं
* जारिसयेत्यत बारम्ब मन्तरा विहायकादश सर्वा अपि भाष्यगाथा इति कस्यचिवभिप्रायः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org