________________
मावश्यक-हारिभद्रीयत्तिः
॥११॥ उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवत्ती, तथा अजिते तीर्थकरे सगरश्चक्रवती भविष्यति एवं तीर्थकरोतानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्-'मघवा सणंकुमारो सर्णकुमारं गया कप्प' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ॥ द्वितीयगाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्यन्तरे तु भवति सुभूमश्च कौरव्यः,तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः ॥ तृतीयगाथागमनिका--मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ ?, पद्मनाभहरिषेणौ 'नमिनेमिसु जयनामो अरिठपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिनौ, अन्तरग्रहणमभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत् , अरिष्टग्रहणाद् अरिष्टनेमिः, पार्थेति पार्थस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥ ४१६-४१७-४१८ ॥ इदानी वासुदेवो यो यत्तीर्थफरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते
पंचऽरहते वंदति केसवा पंच आणुपुच्चीए । सिजंस तिविडाई धम्म पुरिससीहपेरंता ॥४१९॥ अरमल्लिअंतरे दुण्णि केसवा पुरिसपुंडरिअदत्ता । मुणिमुष्वयनमिअंतरि नारायण कण्हु नेमिमि ॥ ४२० ।।
गमनिका-पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति–पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यागनार्थमिति । कियन्तोऽर्हन्तः १ किमेकः द्वौ त्रयो वा !, नेत्याह-'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् । नेत्याह-'आनुपूर्व्या' परिपाव्या 'सिजस तिविट्ठाई धम्म पुरिससीहपेरंता' श्रेयांसादीन त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वदिसु केसवा' इत्यादि गाथार्थः ॥ द्वितीयगाथागमनिका-अरश्च मलिट् अरमल्ली तयोरन्तरम्-अपान्तरालं तस्मिन् , द्वौ केशवौ भविष्यतः, को दी इत्याह-पुरुषपुण्डरीकदत्ती 'मुणिसुषयणमिअंतरे णारायणो' ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मनिसनतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभवद्वा । तथा 'कण्हो ये नेमिंमित्ति कृष्णाभिधान- ।
वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः॥४१९-४२० ॥ एवं तावत् चक्रवर्तिनो वासुदेवाश्च यो पजिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाहचकिदुगं हरिपणगं पणगं चकीण केसवो चकी। केसव चक्की केसव दुचकी केसी अचकी अ॥ ४२१ ॥
गमनिका-प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवर्त्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवर्येव, पुनर्नारायणाभिधानः केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्तिनी, पुनः कृष्णनामा केशवः, पुनब्रह्मदत्ताभिधानश्चक्रवतीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥ ४२१ ॥ उक्तमानुषङ्गिक, प्रकृतं प्रस्तमः-तत्र यदुक्तम् 'तित्थगरो को इहं भरहे!' त्ति तयाचिख्यासयाssg-मूलभाष्यकार:* कण्ड (इति स्यात्).
अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए।
अण्णोऽवि कोऽपि होही भरहे वासंमि तित्थयरो॥४४॥ (मू० मा०) गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात ! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थ करोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः ॥ .
तस्थ मरीईनामा आइपरिवायगो उसमनत्ता । सज्झायझाणजुत्तो एगते सायह महप्पा ॥ ४२२ ॥ गमनिका-'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महारमेति गाथार्थः ॥ ४२२ ॥ तं दाएइ जिणिदो एव नरिंदेण पुच्छिओ संतो। धम्मवरचक्कवटी अपच्छिमो वीरनामुत्ति ॥ ४२३ ॥
गमनिका-भरतपृष्टो भगवान् 'त' मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः॥ ४२३ ॥
आइगह दसाराणं तिविठू नामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ॥ ४२४ ॥ गमनिका-आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रिय. मित्रनामा चक्रवती मूकायां नगर्या 'विदेहवासंमित्ति महाविदेहे भविष्यतीति गाथार्थः॥ ४२४ ॥
तं वयणं सोऊणं राया अंचियतणूरुहसरीरो। अभिवंदिऊण पिअ मरीइमभिवंदओ जाइ ॥ ४२५ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org