________________
भोज-भीमप्रबन्धः ।
प्रकाशः ] भ्याहंपूर्विकया कार्यमाणयोः पञ्चाशद्धस्तप्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्वजाधिरोपो भवति तस्मिन्नुत्सवेऽपरेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरुह्य समागन्तव्यम् । इत्थं भोजस्य यथारुच्यऽङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेषु सामर्षोऽपि तेनापि प्रकारेण भोजमधश्चिकीर्षुरेकस्मिन्नेव लग्ने पृथक् पृथक् प्रारब्धयोरुभययोः प्रासादयोः सर्वाभिसारेण निजप्रासादं निर्मापयन् सूत्रभृतं पप्रच्छ - 'एकस्मिन्नहन्युदयास्तयोरन्तरे कियान् कर्मस्थायो' भवतीति निवे-5 यताम्' । अथ तैश्चतुर्दश्यनध्याये तत्र सप्तहस्तप्रमाणा एकादश प्रासादा दिनोदये प्रारभ्य दिनान्ते कलशपर्यन्तः कारयित्वा नृपाय दर्शिताः । तया समग्रसामग्र्या नृपः प्रमुदितचित्तो भोजप्रासा
1
पालबन्धे जायमाने निजप्रासादेऽनलसः कलशमधिरोप्य निर्णीते ध्वजाधिरोपलग्ने तया प्रतिज्ञया श्रीभोजं दूतमुखेन निमन्त्रयामास । ततः स्वप्रतिज्ञा भङ्गभीरुर्मालवमण्डलप्रभुस्तथा प्रयातुमप्रभूष्णुस्तूष्णीमासीत् । अथ प्रासादध्वजाधिरोपानन्तरम्, अवतीर्णपुराणकर्ण इव श्रीकर्णस्ताव- 10 द्भिरेव नृपैः समं प्रस्थितः श्रीभोजमभ्यषेणयत् । तस्मिन्नवसरे श्री भोजराज्यार्द्ध प्रतिश्रुत्य मालकमण्डलपाणिघाताय निस्सीमतदीयसीमनगरे" श्रीकर्णः श्रीभीममजूहवत् । अथ ताभ्यां नरेन्द्राभ्यां मन्त्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव । तदा चाकस्मिके सञ्जाते भोजपुरपाटवे पन्हूयमाने सर्वेष्वपि घाटमार्गेषु निजनियुक्तमानुषैः सर्वथा निषिद्धयमाdsपरपुरुषप्रवेशे श्री भीमः कर्णाभ्यर्णवर्त्तिनं निजसान्धिविग्रहिकं दामरं भोजवृत्तान्तज्ञानाय 15 स्वपुरुषेण पप्रच्छ । तेनापि स " पुरुषो गाथामध्याप्य प्रहितः श्री भीमसभामुपागतः
20
१२३. अम्बयफलं सुपक्कं विष्टं सिढिलं समुब्भडो पवणो । साहा मल्हेणसीला न याणिमो कञ्जपरिणामो ॥ अनया गाथया श्री भीमे तथास्थिते श्रीभोजः सन्निहितपरलोकपथप्रयाणः कृततदुचितधर्मकृत्यः, "राज्यस्यानुशास्तिं समस्तराजलोकस्य वितीर्य 'मम पञ्चत्वानन्तरं मत्करौ विमानाद्वहिर्विधेयावित्यादिश्य दिवं गतः ।
५१
[८४] [[कसु करु रे पुत कलत्त घी कसु करु रे करसणवाडी । एकला आइवो एकला जाइवो हाथपग बेहु झाडी ॥ इति भोजवाक्यं वैश्यया कथितं लोकानां प्रति । }
७८) [*अथ तस्मिन् श्री भोजे दिवमुपेयुषि ] तद्वृत्तान्तविदा कर्णेन तदुर्गमदुर्ग भङ्गादनु" समग्रायां श्रीभोजलक्ष्म्यामुपात्तायां श्री भीमेन दामर आदिष्टः- 'यच्छ्रीकर्णात्त्वया मत्परिकल्पितं राज्यार्द्ध" निजं शिरो वोपनेतव्यम्' । इति राजादेशं विधित्सुर्द्वात्रिंशता पत्तिभिः समं" गुरूदरे प्र-25 विश्य मध्याह्नकाले प्रसुप्तं श्रीकर्ण " बान्धे जग्राह । अथ तेन राज्ञा एकस्मिन् विभागे नीलकण्ठचिन्तामणिगणाधिपप्रमुखदेवतावसरे निर्णीतेऽपरस्मिन्नुत्तरार्द्धे समस्तराज्यवस्तूनि 'स्वेच्छयैक मर्द्धमाद
1 एतद्विपदस्थाने BPPa 'तयो:' इत्येव । 2 Pa यस्य । 3 Pa यथांगीकारे । 4 'तेषु सामर्षोऽपि नास्ति AD | 5 D निर्मापयतोस्तत्र कर्णः सूत्र० । 6 D कर्मोच्छ्रायो। 7 AD तेन चतु० । 8 AD कलशारोपपर्यन्ताः । 9 AD ०कलाप० । 10 AD संजाय० । 11 D • प्रभुश्च श्रीभोजस्तूष्णी० । 12 BPPa ध्वजारोपणादनन्तरं । 13 BP अवतीर्णः पु० । 14 AD • मभिषेणयितुं | 15 AD तदा च । 16 BP • राज्यार्द्ध प्रदानमूरीकृत्य | 17 AD नास्तीदं पदं । 18 BPP& तस्मिन् नृपस्य वपुरपाटवे । 19 B निजमुक्तमानसैः । 20 B तं पुरुषं । 21 D मिल्हण० । 22 एतद्वाक्यं नास्ति AD 23 B इत्यादिदेश । 24 P दिवमुपेयुष; Pa •मुपेयिवान्; B नास्तीदं । + कोष्टकान्तर्गतः पाठो नास्ति BPPa आदर्शेषु । * B आदर्श एव केवलमिदं वाक्यमुपलभ्यते । 25 AD दुर्गभङ्ग पूर्वं । 26 BP समग्रभोजल० । 27 D नास्ति । 28 BPPa वोपनेयं । 29 AD सह । 30A बान्धं; D छान्द्यं ।
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org