SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२० प्रबन्धचिन्तामणिः । [पञ्चमः तत्पादलेपाद गगनगामी भूया' इति तदनुग्रहादेकां सिद्धिमासाद्य 'श्रीपार्श्वनाथपुरतः साध्यमानो रसः समस्तस्त्रैणलक्षणोपलक्षितपतिव्रतावनिमद्यमानः कोटिवेधी भवतीति तन्मुखा. दाकर्ण्य च; यत्पुरा समुद्रविजयदाशार्हेण त्रिकालवेदिनः श्रीनेमिनाथमुखात् [श्रुत्वा] महातिशायिनः श्रीपार्श्वनाथस्य बिम्ब रत्नमयं निर्माप्य श्रीद्वारवत्यां प्रासादे न्यस्तम्, द्वारवतीदाहानन्तरं 5 समुद्रण प्लावितायां तस्यां पुरि, तत्र समुद्रे तस्मिन्बिम्बे तथैव विद्यमाने कान्तीत्यसांयात्रिकस्य धनपतिनानो यानपात्रे देवतातिशयवशात् स्खलिते, इह जिनबिम्बमस्तीति दिव्यवाचा निर्णीय नाविकांस्तत्र प्रक्षिप्य सप्तसंख्यैरामतन्तुभिः सन्दानितमुद्धृत्य निजायां पुरि चिन्तितातीतलाभात् स्वयंकृतप्रासादे न्यस्तवान् । तत्सर्वातिशायिबिम्ब नागार्जुनः स्खसिद्धरससिद्धयेऽपहृत्य सेडीतटिन्यास्तटे विन्यस्य तत्पुरतो रससाधनाय श्रीशातवाहनस्यैकपत्नी चन्द्रलेखाभिधानां 10 प्रतिनिशं सिद्धव्यन्तरसान्निध्यात्तत्रानीय रसमर्दनं कारयति स्म। इत्थं भूयो भूयस्तत्र यातायाते सति बन्धुबुद्ध्या सा नागार्जुनपार्श्वे तदौषधीनां मर्दनहेतुं पृच्छन्ती सोऽपि खकल्पनया कोटिवेधरसस्य यथावस्थितं वृत्तान्तं निवेदयन् , तस्याश्च वचनगोचरातीतं सत्कारं कुर्वाणोऽनन्यसामान्यं सौजन्यं प्रवर्द्धयामास । अथ कदाचित्तया निजाङ्गजयोरस्मिन् वृत्तान्ते निवेदिते तो तल्लुब्धौ राज्यं परित्यज्य नागार्जुनसमलवृतां भुवमागतौ कैतवेन तस्य रसस्य जिघृक्षया गुप्तवेषौ यत्र 15 नागार्जुनो भुङ्क्ते तत्र तामर्थदानेन परितोष्य रसवार्ता पृच्छतः। सा च तजिज्ञासया तदर्थं सलवणां रसवती कुर्वती षण्मास्यां व्यतीतायां तस्मिन् क्षारामिति रसवती दूषयति सति, इङ्गितैः सिद्धं रसमिति ताभ्यां निवेदितवती । अथ प्रतिपन्नभागिनेयाभ्यां ताभ्यां रसग्रसनलालसाभ्यां वासुकिना निर्णीतदर्भाङ्कुरमृत्युमिति परम्परया ज्ञाततत्त्वाभ्यां तेनैव शस्त्रेण तथैव स निजने । स रसः सप्रतिष्ठितत्वावताधिष्ठानाच तिरोहितो बभव । यत्र स रसः स्तम्भितस्तत्र स्तम्भनका. 20भिधानं श्रीपार्श्वनाथतीर्थ रसादप्यतिशायि सकललोकाभिलषितफलप्रदम् । ततः कियता कालेन तद्विम्यं वदनमात्रवर्ज भूम्यन्तरितं बभूव ।। __२२१) अथ श्रीशासनदेवतादेशात् षण्मासी यावदाचाम्लानि निर्मायतया निर्माय कठिनीप्रयोगेण नवाङ्गवृत्तौ निवृत्तायां श्रीअभयदेवसूरीणां वपुषि प्रादुर्भूते प्रभूतप्रसूतिरोगे पातालपालः श्रीधरणेन्द्रनामा सितसर्परूपमास्थाय तद्वपुर्जिह्वया विलिहाँ प्रसह्यं निरामयीकृत्य तत्तीर्थ 25 श्रीमदभयदेवसूरीणामुपदिदेश। श्रीसंघेन सह समागतास्तत्र ते सूरयः प्रस्रवन्ती सुरभि विलो क्य गोपालबालैर्निवेदितायां भुवि नवं द्वात्रिंशतिकास्तवमवास्तवं" कुर्वन्तस्त्रयस्त्रिंशत्तमे वृत्ते तत्र श्रीपार्श्वनाथविम्ब प्रादुश्चक्रुः । देवतादेशेन च तद्वृत्तं गोप्यमेव निर्ममेशो" निर्ममे। २६३. *जन्माग्रेऽपि चतुःसहस्रशरदो देवालये योऽर्चितः स्वामी वासववासुदेववरुणैः स्वावासमध्ये" ततः। कान्त्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितः पायात्स्तम्भनके पुरे स भवतः श्रीपार्श्वनाथो जिनः॥ ॥इति नागार्जुनोत्पत्ति-स्तम्भनकतीर्थावतारप्रबन्धः॥ __ 1 D लक्षितः। 2 P वनिता पतिदेवतया मद्यमानः। 3D वाहनपत्नीं। 4 P कुर्वाणा। 5 P सुप्रतिष्ठानदेवताधिष्ठानवशो रसश्च । 6 D नास्त्येतत्पदं। 7P पतितमिदं पदं। 8 D नास्ति 'प्रसूति'। 9P लेलिह्य। 10 D प्रसद्य। 11 'अवास्तवं' नास्ति DI 12 'जय' शब्दो नास्ति DI 13 AD नास्ति । *P आदर्श एतत्पद्यं नोपलब्धम् । 14 D यन्मार्गेपि । 15 B स्वर्द्धिमध्ये। 16 B.नाञ्चितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002519
Book TitlePrabandha Chintamani
Original Sutra AuthorMerutungacharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy