________________
ज्ञान बिन्दुप्रकरणस्य
[ पृ० ३७ पं० १४
अद्भूतयवहारः स कथ्यते यः परद्रव्यस्य परिणत्या मिश्रितः । अर्थात् द्रव्यादेर्धर्माधर्मादेरुपचारत: उपचरणात् परपरिणतिश्लेषजन्यः - परस्य वस्तुनः परिणतिः परिणमनं तस्य श्लेषः संसर्गस्तेन जन्यः परपरिणतिश्लेषजन्योऽसद्भूतव्यवहारः कथ्यते । स नवधा नवप्रकारो भवति । तथाहि - द्रव्ये द्रव्योपचारः १, गुणे गुणोपचारः २, पर्याये पर्यायोपचारः ३, द्रव्ये गुणोपचारः ४, द्रव्ये पर्यायोपचारः ५, गुणे द्रव्योपचारः ६, गुणे पर्यायोपचारः ७, पर्याये द्रव्योपचारः ८, पर्याये गुणोपचारः ९ ।
5
द्रव्ये द्रव्योपचारो हि यथा पुद्गलजीवयोः ।
गुणे गुणोपचारच भावद्रव्याख्यलेश्ययोः ॥ ५ ॥
श्री जिनस्यागमे पुद्गलजीवयोरैक्यं - जीवः पुद्गलरूपः पुद्गलात्मकः । अत्र जीवोऽपि 10 द्रव्यम्, पुद्गलोऽपि द्रव्यम् । उपचारेण जीव: पुद्गलमय एवासद्भूतव्यवहारेण मन्यते । न तु परमार्थतः ।
गुणे गुणोपचारो यथा - भावलेश्याद्रव्यलेश्ययोरुपचारः । भावलेश्या हि आत्मनोऽरूपी गुणः, तस्य हि यत् कृष्णनीलादिकथनं वर्तते तद्धि पुद्गलद्रव्यजगुणस्योपचारोऽस्ति । पर्याये किल पर्यायोपचारश्च यथा भवेत् ।
स्कन्धा यथात्मद्रव्यस्य गजवाजिमुखाः समे ॥ ६ ॥
पर्याये पर्यायस्य यथा - आत्मद्रव्यपर्यायस्य गजवाजिमुखाः पर्यायस्कन्धा उपचारादात्मद्रव्यस्य समानजातीयद्रव्यपर्यायास्तेषां स्कन्धाः कथ्यन्ते । ते चात्मपर्यायस्योपरि पुद्गलपर्यायस्योपचरणात् स्कन्धा व्यपदिश्यन्ते व्यवहारात् ।
15
20
११६
द्रव्ये गुणोपचारश्च गौरोऽहमिति द्रव्यके । पर्यायस्योपचारथ ह्यहं देहीति निर्णयः ॥ ७ ॥
'अहं गौर:' इति ब्रुवता अहमिति आत्मद्रव्यम्, तत्र गौर इति पुद्गलस्य उज्ज्वलताख्यो गुण उपचरितः ।
अथ द्रव्ये पर्यायोपचारः - 'अहं देही' इत्यत्र अहमिति आत्मद्रव्यम्, तत्र आत्मद्रव्यविषये देहीति देहमस्य अस्तीति देही । देहमिति पुद्गलद्रव्यस्य समानजातीय द्रव्यपर्याय 26 उपचरितः ।
ae
'अयं गौरो दृश्यते स चात्मा' - अत्र गौरमुद्दिश्य आत्मनो विधानं क्रियते यत्तदिह गौरतारूपपुद्गलगुणोपरि आत्मद्रव्यस्योपचारपठनमिति ।
पर्याये द्रव्योपचारो यथा - 'देहमित्यात्मा' अत्र हि देहमिति देहाकारपरिणतानां पुद्गलानां पर्यायेषु विषयभूतेषु चात्मद्रव्यस्योपचारः कृतः ।
गुणे पर्यायचारश्च मतिज्ञानं यथा तनुः ।
पर्याये गुणचारोsपि शरीरं मतिरिष्यते ।। ९ ।।
गुणे पर्यायोपचारः यथा - मतिज्ञानं तदेव शरीरं शरीरजन्यं वर्तते ततः कारणादत्र 34 मतिज्ञानरूपात्मक गुणविषये शरीररूपपुद्गलपर्यायस्योपचारः कृतः ।
गुणे द्रव्योपचारच पर्यायेऽपि तथैव च ।
गौर आत्मा देहमात्मा दृष्टान्तौ हि क्रमात्तयोः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org