________________
पृ० ३७. पं० १४.]
टिप्पणानि । ननु प्रज्ञायां भगवत्याम् प्रज्ञापनायां च स्फुटं भणितमेव उक्तमेव यथा जिनः केवली परमाणुरत्नप्रभादीनि वस्तूनि 'जं समयं जाणइत्ति' यस्मिन् समये जानाति 'न वि पासइ तं ति' तस्मिन् समये नैव पश्यति किन्तु अन्यस्मिन् समये जानाति अन्यस्मिंस्तु पश्यति । इयमत्र भावना-इह भगवत्यां तावदष्टादशशतस्य अष्टमोद्देशके स्फुटमेवोक्तम् । तद्यथा- छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं किं जाणइ न पासई उताहो न जाणइ न पासइ ? । गोयमा, अत्थेगइए जाणइ न पासइ, अत्थेगइए न जाणइ न पासइ एवं जाव असंखिजपएसिए खंधे (इह छद्मस्थो निरतिशयो गृह्यते तत्र श्रुतज्ञानी श्रुतज्ञानेन परमाणु जानाति न तु पश्यति श्रुते दर्शनाभावात् अपरस्तु न जानाति न पश्यति) एवं ओहिए वि । परमोहिए णं भंते ! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? नो इणढे समढे। से केणद्वेणं भंते ! एवं वुच्चइ । गोयमा ! सागारे से नाणं भवइ अणागारे'10 से दसणं भवइ, तेणटेणं एवं वुच्चइ इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते इति ? ॥ ३११२ ॥” विशेषा० टी० ।
पृ० ३५. पं० ५. 'सुषुप्तौ'- "अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् विषयत्वक्संयोगस्य त्वङ्मनःसंयोगस्य च । सत्त्वात् परस्परप्रतिबन्धादेकमपि वा न स्यादिति"- मुक्तावली का० ५७ । पृ० ३५. पं० २५. 'असतो णत्थि___ "असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं ।
संजोगाइचउकं पि सिद्धमत्थंतरे निययं ॥" विशेषा० गा० १५७४ । पृ० ३६. पं० २. 'स्वभावहेतुक' - "केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न 20 युगपत्तदुपयोगसम्भवः, तथाजीवखाभाव्यात्" - नन्दी० म० पृ० १३६ । विशेषा० गा० ३१३४ ।
"क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवखाभाव्यादेव केवलज्ञानावरणकेवलदर्शनावरणक्षयेपि सततं तयोरप्रादुर्भावाविरोधात्" -- नन्दी० म० पृ० १३८ ।
पृ० ३६. पं० ५. 'पृथगेवावरण' - विशेषा० गा० ३०९३ । तत्त्वार्थ० टी० पृ० १११। पृ० ३६. पं० २७. 'साद्यपर्यवसिते' -
"जमपजंताई केवलाई तेणोभओवओगोत्ति । साद्यपर्यवसितत्वाद् यस्मादपर्यन्ते अविनाशिनी सदावस्थिते केवलज्ञानदर्शने तेन तस्माद् युगपदुपयोग इष्यते अस्माभिः । इह हि यद् बोधस्वभावं सदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमेव, अन्यथा उपलशकलकल्पत्वेन बोधखभावत्वानुपपत्तेः । सदोपयोगे च द्वयोः युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः”– विशेषा० टी० गा० ३१०० । पृ० ३७. पं० १४. 'नवविधोपचारमध्ये -
"असद्भूतव्यवहारो द्रव्यादेरुपचारतः । परपरिणतिश्लेषजन्यो भेदो नवात्मकः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org