________________
$
१९४
ज्ञान बिन्दुप्रकरणस्य
[ पृ० ३२. पं० १कामत्वेन प्रयोजनाभावेन केवलं लीलयैव जगतः सृष्टिरित्यादि प्रतिपादयद्भिर्विरोधं च मन्यमाना हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः ।
अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः संसारादिभाज इति सविशेषाने कशरीरैकजीववादमातिष्ठन्ते ।
योगिनस्तु कायव्यूहसुखाद्यनुसन्धानं व्यवहितार्थग्रहण व द्योगप्रभावनिबन्धनमिति न 1" तदुदाहरणमिति अविशेषानेकशरीरैकजीववादं रोचयन्ते ।” सिद्धान्तलेश पृ० १२३-१२७ ॥ अद्वैतसिद्धि० पृ० ४१२ | सिद्धान्तबिन्दु - पृ० २२७,२३४ ।
25
अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति । न चैवं शरीरावयवभेद इव शरीरभेदेऽपि परस्परसुखाद्यनुसन्धानप्रसङ्गः । जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजकत्व कृप्तेः ।
पृ० ३२, पं० १. 'शब्दस्य त्वपरोक्ष' - " यद्यपि मिथ्यारूपो बन्धो ज्ञानवाध्यः, तथापि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते, रज्वादावपरोक्षसर्पप्रतीत वर्तमानायां 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशजनितपरोक्षसर्प विपरीतज्ञानमात्रेण 1 भयानिवृत्तिदर्शनात् । आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्ष निमित्तप्रवृत्तिहेतुत्वेन । तथाहि – रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम् तस्य अनिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव ह्यपरोक्षसाधनानि । न चास्यानभिसंहितफल कर्मानुष्ठानमृदितकषायस्य श्रवणमनननिदिध्यासन विमुखीकृत" बाह्यविषयस्य पुरुषस्य वाक्यमेवापरोक्षज्ञानं जनयति, निवृत्तप्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्री विशेषाणामिन्द्रियादीनां स्वविषय नियमातिक्रमादर्शनेन तदयोगात् ।" श्रीभाष्य पृ० १४७ ।
30
पृ० ३२. पं० १८. 'एतच्च दशमस्त्वमसि' – नैष्क० पृ० १४८ । पञ्चदशी प्र०
-
का० २२ तः ।
पृ० ३३. पं० २२. 'इदमिदानीं निरूप्यते' - अस्मिन् विषये सन्मतिटीकागतं विस्तृतं [ पृ० ५९७ दि०२] टिप्पणं द्रष्टव्यम् । -
पृ० ३३. पं० २७. 'नन्दिवृत्तौ ' - " केचन सिद्धसेनाचार्यादयो 'भणंति' ब्रुवते किमित्याह - 'युगपद्' एकस्मिन्काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात् नियमेन ” - नन्दी० म० पृ० १३४ B।
पृ० ३३. पं० ३०. ' सम्मतिगाथा' - एता गाथा ग्रन्थकारोऽभयदेव वृत्तिमनुसृत्यैव प्रायशो व्याख्यातवानिति तुलनां जिज्ञासुभिरभयदेवीया वृत्तिर्द्रष्टव्या ।
पृ० ३४. पं० १८. 'केचिञ्जिनभद्रानुयायिनः' -
Jain Education International
" भणियं पिय पन्नत्ती - पन्नवणाईसु जह जिणो समयं । जं जाणइ न वि पासह तं अणुरयणप्पभाईणि ॥ ३११२ ॥
७
For Private & Personal Use Only
www.jainelibrary.org