________________
११३
पृ० ३०. पं० १५.]
टिप्पणानि । जीव एव स्वाज्ञानवशात् जगदुपादानं निमित्तं च । दृश्यं सर्वं प्रातीतिकम् । देहभेदाच जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदाात् आत्मसाक्षात्कारे सति मोक्षः । शुकादीनां च मोक्षश्रवणं अर्थवादः। महावाक्ये च तत्पदं अनन्तसत्यादिवद् अज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकम् इत्याद्यवान्तरभेदाः स्वय, मूहनीयाः"- सिद्धान्तबिन्दु पृ० २३२ । अद्वैत. पृ० ५३३ । सिद्धान्तलेश पृ० ३५०-३५६ । ।
पृ० २६. पं० १४. 'किं च सप्रकारम्' - 'किश्च सप्रकारम्' इत्यारभ्य 'अनुद्भावनाहः' इति यावत् पाठः 'त'प्रतावेव न 'अ-ब'प्रत्योः । अग्रेतनश्च 'किश्च निष्प्रकारकज्ञानस्य' इत्यारभ्य 'अज्ञाननिवृत्तिः' इति यावत् पाठः 'अ-ब'प्रत्योरेव न 'त'प्रतौ । तथापि अर्थदृष्ट्या द्वयोरपि समुचितत्वं भाति इति द्वयोरपि ग्रहणं कृतम् । पौर्वापर्यमपि अनयोस्तथैव समुचितं भाति यथा अस्माभिरुपन्यस्तम् - वेदान्तक० पृ० २९ । सिद्धान्तलेश पृ० ४७० । " अद्धैतसिद्धि पृ० ६७८ ।
पृ० २८. पं० ३. 'फलव्याप्यत्वमेव' - व्याख्या - "फलव्याप्यत्वमिति- फलं वृत्तिप्रतिबिम्बितचिदाभासः तद्व्याप्यत्वमेव अस्य प्रत्यगात्मनो निराकृतं स्वस्यैव स्फुरणरूपत्वादिति भावः ॥ ९० ॥ इदानीमात्मनि ततो वैलक्षण्यं दर्शयति ब्रह्मणीति प्रत्यग्ब्रह्मणोरेकत्वस्य अज्ञानेन आवृतत्वात्तस्य अज्ञानस्य निवृत्तये वाक्यजन्यया अहं ब्रह्मास्मीत्येवमा- 15 कारया धीवृत्त्या व्याप्तिरपेक्ष्यते ॥ ९२ ॥” पञ्चदशी टीका । अद्वैत० पृ० २३९ ।
पृ० २८. पं० १०. 'वियद्वस्तु' - व्याख्या - "ग्रामस्य चैत्रेण व्याप्ती व्याप्तुश्चैत्रस्य स्वगतविकारवद् बुद्ध्यादेश्चिदात्मव्याप्ती आत्मनोपि विकारप्रसङ्गात् न वेदान्तवेद्यस्य कूटस्थता इत्याशङ्कयाह -वियदिति । यथा कुम्भस्योत्पत्तौ वियता पूर्णता वियतः सर्वगतत्वस्वरूपानुरोधादेव न क्रियावत्त्वात् तथा धियां तद्वृत्तीनां तद्धर्माणां च दृगात्मना व्याप्तिः तद्गतक्रियां । विना पूर्णचित्स्वरूपावेशादेव अतो युक्ता वेदान्तवेद्यस्य कूटस्थता इत्यर्थः ।" - संबंभवा० ५४३ । , पृ० २८. पं० १२. 'घटदुःखादि' - व्याख्या - "आत्मनो विकाराइते बुद्ध्यादिव्याप्तौ बुद्ध्यादेरपि विना विकारं बाह्यान्तरविषयाकारभजनं स्यात् बोद्धृत्वाविशेषात् अन्यथा आत्मनोऽपि विकारद्वारैव बुद्ध्यादिव्याप्तेरकूटस्थता इति चेन्नेत्याह - घटेति । बुद्धे डाकार- . भजनम् अदृष्टकृतं न स्वारसिकं बुद्धिबोध्ययोरुभयोरपि परिच्छिन्नत्वात् धर्मादेश्च साभास- 25 बुद्धिविक्रियात्वात् युक्तं बुद्धेर्विकारद्वारा विषयाकारत्वमित्यर्थः ।” बृहदा० संबंध० ५४२ ।। - पृ० ३०. पं० १५. 'एकजीवमुक्ति' - "अथायं जीव एकः, उतानेकः ?। अनुपदोक्तपक्षावलम्बिनः केचिदाहुः - ‘एको जीवः, तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणीव निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत्, तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति, जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वाप्न- 30 पुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च संभावितसकलशङ्कापङ्कप्रक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम्' इति । __ अन्ये त्वस्मिन्नेकशरीरैकजीववादे मनःप्रत्ययमलभमानाः 'अधिकं तु भेदनिर्देशात्' 'लोकवत्तु लीलाकैवल्यम्' इत्यादिसूत्रैर्जीवाधिक ईश्वर एव जगतः स्रष्टा न जीवः । तस्याप्त
ज्ञा० १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org