________________
११२ ज्ञानबिन्दुप्रकरणस्य
[पृ० २४. पं०५पृ० २४. पं० ५. 'मीमांसकैश्च
"न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवृत्तिनी । बुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना ॥ २१९ ॥ सा च पट्वी भवत्येव महातेजःप्रकाशिते । मन्दप्रकाशिते मन्दा घटादावपि सर्वदा ॥ २२०॥
एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ।" श्लोक० शब्दनि । मीमांसाद. १.१.१७ । शाबर० १.१.१७ । ___ "व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात् । ध्वनिधर्महस्वत्वदीर्घ
त्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति 10 मीमांसकैरभ्युपगमात् गन्धप्रागभावावच्छिन्ने घटे तात्त्विकव्याप्त्यादिमतापि पृथिवीत्वेन अतात्त्विकगन्धानुमितिदर्शनात् प्रतिविम्बेन च बिम्बानुमितिदर्शनात्" अद्वैत. पृ० ३६५ ।
पृ० २४. पं० ११. संमतिवृत्तौ- पृ. २७२-८० । पृ० २८५-९६ ।
पृ० २४. पं० ३१. 'एतेन' - चित्सुखाचार्य-मधुसूदनसरस्वतीप्रभृतिभिर्वर्णितायाः ब्रह्मज्ञानस्य अविद्यानाशकत्वप्रक्रियायाः ग्रन्थकारेण निरसनमितः प्रारब्धम् । is "एवं हि न्यायसुधायामाराध्यपादैरुपपादितं संसारमूलकारणभूताऽविद्या यद्यप्येकैव तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैकः प्रपञ्चस्य परमार्थसत्त्वभ्रमहेतुः, द्वितीयः अर्थक्रियासमर्थवस्तुकल्पकः, तृतीयस्त्वपरोक्षप्रतिमासविषयाकारकल्पकः । तत्राद्वैतसत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पकाकारो निवर्त्तते । अर्थक्रियासमर्थप्रपञ्चोपादानमायाकारः
तत्त्वसाक्षात्कारेण विनीयते अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्त20 स्याऽनिवृत्तः समाध्यवस्थायां तिरोहितः अन्यदा देहाभासजगदाभासहेतुतयानुवर्तते प्रारब्धकर्मफलोपभोगावसाने तु निवर्त्तते....” चित्सुखी पृ० ३९३ ।
"तुच्छाऽनिर्वचनीया च वास्तवी चेत्यसौ त्रिधा ।
ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः ॥ १३०॥" पञ्चदशी चित्र. १३० । अद्वैत. पृ० ६१२, ८९१ । अद्वैतरत्नरक्षण पृ० ४५ । 25 पृ० २५. पं० ६. 'तस्याभिध्यानाद्'- "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद् योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः ।" श्वेता० १.१०।
"तस्य परमात्मनोऽभिध्यानात् कथं योजनाज्जीवानां परमात्मसंयोजनात् तत्त्वभावाद् अहं ब्रह्मास्मि इति भूयश्च असकृदन्ते प्रारब्धकर्मान्ते यद्वा स्वात्मज्ञाननिष्पत्तिः अन्तः ३० तस्मिन् स्वात्मज्ञानोदयवेलायां विश्वमायानिवृत्तिः सुखदुःखमोहात्मकाशेषप्रपञ्चरूपमायानिवृत्तिः" - शाङ्करभाष्य । संक्षेपशा० ४.४६ ।
पृ० २५. पं० २२ 'दृष्टिसृष्टि' - "अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिविम्बचैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धचैतन्यमीश्वरः अज्ञानोपहितं जीव इति वा मुख्यो वेदान्तसिद्धान्तः एकजीववादाख्यः । इममेव दृष्टिसृष्टिवादमाचक्षते अस्मिंश्च पक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org