________________
पृ० ४७. पं० ७.]
टिप्पणानि । पर्याये गुणोपचारो यथा हि पूर्वप्रयोगजमन्यथा क्रियते । यतः शरीरे तदेह मतिज्ञानरूपो गुणोऽस्ति । अत्र हि शरीररूपपुद्गलपर्यायविषये मतिज्ञानरूपाख्यस्य गुणस्योपचारः क्रियते"द्रव्यानुयोगतर्कणा-पृ० १००-१०५ । द्रव्यगुणपर्यायनो रास पृ० ६३-६५। पृ. ३७. पं० ३१. 'सव्वाओ' -
"सव्वाओ लद्धीओ जे सागरोवओगलाभाओ।
तेणेह सिद्धलद्धी उप्पाइ तदुवउत्तस्स ॥" विशेषा० ३०८६ । पू० ३८. पं० २२. 'अस्मिन्नेव वादे' - विशेषा० ३१०२,३१०३ । पृ० ४०. पं० २९. 'शक्तिसमन्वयात' - विशेषा० गा० ३१००,३१०१। पृ० ४२. पं० १०. 'परवत्तव्वय' - विशेषा० ३११३ । पृ० ४२. पं० १५. 'परमावधिक' -विशेषा० ३११४-३११८ । पृ० ४२. पं० १६. 'स्नातकादि' - विशेषा० ३१२०-२१ । पृ० ४४. पं० १८. 'मतिज्ञानस्याष्टाविंशति' - __ "सोइंदियाइभेएण छविहाऽवग्गहादओऽभिहिआ।
ते होंति चउव्वीसं चउव्विहं वंजणोग्गहणं" ॥ ३०० ॥ विशेषा० । पृ० ४५. पं० २. 'अनागतातीतविषयेषु' - "स्मृत्या लिङ्गदर्शनेन चाऽप्रत्यक्षोऽर्थोऽनु- 15 मीयते । पूर्ववदिति यत्र कारणेन कार्यमनुमीयते, यथा मेघोन्नत्या भविष्यति वृष्टिरिति । शेषवत्तत्-यत्र कार्येण कारणमनुमीयते, पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति”- न्यायभा० १.१.५ । माठर० पृ० १३ ।
पृ० ४६. पं० ८. 'प्रत्यक्षपदस्य' - "तद् द्विप्रकारम् - सांव्यवहारिक पारमार्थिक च" प्रमाणनय० २.४ ।
पृ० ४६. पं० २१. 'अत्र यट्टीकाकृता' - "छद्मस्थावस्थायां तु प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यनपगतावरणस्यात्मनो दर्शनोपयोगसमये ज्ञानोपयोगस्यासंभवाद् अप्राप्यकारिनयनमनःप्रभवार्थावग्रहादिमतिज्ञानोपयोगप्राक्तनी अवस्था अस्पृष्टावभासिग्राह्यग्राहकत्वपरिणत्यवस्था व्यवस्थितात्मप्रबोधरूपा चक्षुरचक्षुर्दर्शनव्यपदेशमासादयति । द्रव्यभावेन्द्रियालोकमतिज्ञानावरणकर्मक्षयोपशमादिसामग्रीप्रभवरूपादिविषयग्रहणपरिणति- 25 श्वात्मनोऽवग्रहादिरूपा मतिज्ञानशब्दवाच्यतामश्रुते । श्रुतज्ञानावरणकर्मक्षयोपशमवाक्यश्रवणादिसामग्रीविशेषनिमित्तप्रादुर्भूतो वाक्यार्थग्रहणपरिणतिस्वभावो वाक्यश्रवणानिमित्तो वा आत्मनः श्रुतज्ञानमिति शब्दाभिधेयतामाप्नोति । रूपिद्रव्यग्रहणपरिणतिविशेषस्तु जीवस्य भवगुणप्रत्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचनादिबाह्यनिमित्तनिरपेक्षः अवधिज्ञानमिति व्यपदिश्यते तज्ज्ञैः अवधिदर्शनावरणकर्मक्षयोपशमप्रादुर्भूतस्तु स एव तद्रव्य- सामान्यपर्यालोचनस्वभावोऽवधिदर्शनव्यपदेशभाक् भवति" - सन्मतिटीका० पृ० ६२० । __पृ० ४७. पं० ७ 'अर्थेनैव' - "स्यादेतत् - अनुभवसिद्धमेव प्राकट्यम् । तथा हि, ज्ञातोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरति इति चेत् । तदसत् । यथा हि
अथेनैव विशेषो हि निराकारतया धियाम् ।" न्यायकुसु० ४.४ । .... - 35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org