________________
११०
ज्ञानबिन्दुप्रकरणस्य [पृ० २२. पं० २१यदा न भावो नाभावो मतेः संतिष्ठते पुरः। तदान्यगत्यभावेन निरालम्बा प्रशाम्यति ॥ ३५ ॥ क्लेशज्ञेयावृतितम प्रतिपक्षो हि शून्यता । शीघं सर्वज्ञताकामो न भावयति तां कथम् ॥ ५५ ॥ यदुःखजननं वस्तु वासस्तस्मात्प्रजायताम् । शून्यता दुःखशमनी ततः किं जायते भयम् ॥ ५६ ॥ यतस्ततो वास्तु भयं यद्यहं नाम किंचन । अहमेव न किंचिच्चेद्भयं कस्य भविष्यति ॥५७ ॥ यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः। तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥ ७५ ॥ यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् । कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥ ७५ ।। कार्य कस्य न चेत् सत्त्वः सत्यमीहा तु मोहतः । दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते ॥ ७७ ॥ दुःखहेतुरहङ्कार आत्ममोहात् तु वर्धते ।
ततोऽपि न निवत्यैश्चेत् वरं नैरात्म्यभावना ॥७८॥" बोधिच० प्रशा० परि० ९। मूलमध्य० आत्म० का० १८॥ तस्वसं० ३३३८,३४८८-३४९२ । तात्पर्य• पृ० ८४ । नन्दी० म० पृ० ३४-३८।
पृ० २२. पं० २१. 'ननु यद्येवं' - श्लोक० आत्म० ३२-५२ । तत्त्वसं० का० ४७६-। न्यायम. पृ० १५-३६ । तत्त्वार्थश्लो० पृ० २१-२३ । स्याद्वादर० पृ० । १११७ । स्याद्वादम० का० १८। 20 पृ० २२. पं० २८. 'पूर्वाहितकृपाविशेष' - प्रमाणवा० १.१९६-२०० । पृ० २३. पं० १. 'सन्तानापेक्षया' -
कर्तृत्वादिव्यवस्था तु सन्तानक्यविवक्षया । कल्पनारोपितैवेष्टा नाङ्गं सा तत्वसंस्थितेः ॥ ५०४ ॥ मानसानां गुणानां तु चित्तसन्ततिराश्रयः।
साऽऽधारयोगतो वृत्तान्न कथंचिन्न वर्तते ॥ ३४३३ ॥ तत्त्वसं० ___ पृ० २३. पं० ४. 'अथाक्लिष्टक्षणेऽक्लिष्ट' - तुलना- "वृत्तयः पञ्चतय्यः क्लिष्टाsक्लिष्टाः” – योगद० १.५।।
क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्ठाः, ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः, क्लिष्टप्रवाहपतिता अप्यक्लिष्ठाः, क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति, अक्लिष्टच्छिद्रेषु क्लिष्टा इति ।
तथाजातीयकाः संस्काराः वृत्तिभिरेव क्रियन्ते, संस्कारैश्च वृत्तय इत्येवं वृत्तिसंस्कारचक्रमनिशमावर्तते, तदेवंभूतं चित्तमवसिताधिकारं आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति ।"- योगभा० १.५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org