SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पृ० २२. पं० १४.] टिप्पणानि । १०९ देवर्षीणां कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो में भ्राता आगन्तेति हृदयं मे कथयतीति ॥” प्रशस्त० पृ० २५८ | योगद० ३.३३ । ३.३६ । न्यायम० प्रमाण० पृ० ९८ । अत्रोच्यते - नैतच्छ्रुतं न केवलं न च ज्ञानान्तरमिति, रात्रिन्दिवाऽरुणोदयवत् । अरुणोदयो हि न रात्रिंदिवातिरिक्तो, न च तयोरेकोपि वक्तुं पार्यते । एवं प्रातिभमप्येतत् न च तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते ।" योगदृष्टि० का० ८ । ज्ञानसार-२६. १ । पृ० १९. पं० २३. ' नन्वेवं भावना' - 'तत्त्वमसि' इत्यादिमहावाक्यजन्ये ब्रह्मज्ञाने अपरोक्षत्वं साधयितुकामेन श्रीमता मधुसूदनेन स्वकीयवेदान्तकल्पलतिकायां पूर्वपक्षरूपतया या चर्चा सविस्तरमारचिता सैव ग्रन्थकारेण प्रस्तुतकेवलज्ञानचर्चायां पूर्वपक्षरूपेण अक्षरशः अवतारिता - वेदान्तक० पृ० ६७-७१ । पृ० २०. पं० ११. 'अभ्यस्यमानं ज्ञानं' - योगिज्ञानस्य भावनाप्रकर्षजन्यत्वं धर्मकीर्तिना 10 - सूत्रितम्, तदेव च शान्तिरक्षितेन तत्त्वसंग्रहे शङ्कासमाधानपुरस्सरं प्रपनयं समर्थितम् । श्रीधरेण कन्दल्यां स एवार्थः संक्षिप्य प्रदर्शितः । सन्मतिटीकाकृता अभयदेवेन सर्वोपि सपूर्वोत्तरपक्षः अभ्युपगमवादेन गृहीतः पर्यवसाने च जैनसरण्यैव केवलरूपस्य योगिज्ञानस्य पूर्णत्वं व्यवस्थापितम् । तथाहि – न्यायबिन्दु १. ११ । प्रमाणवा ० १ १२२ - १३३ | तत्त्वसं ० का० ३४११-३४४३ । कन्दली पृ० १९६ । सन्मति ० टी० पृ० ६० । 15 पृ० २०. पं० २०. 'मनो यदसाधारणमिति' - " तदेव हि प्रमाणान्तरं यत् असाधारणं सहकारि समासाद्य मनो बहिर्गोचरां प्रमां जनयति यथेन्द्रियादि, संशयस्वनौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् ।” तत्त्वचि ० परामर्श पृ० ४६३ । - पृ० २०. पं० २५. 'अभ्युपगमवादेनैव' – “अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ।" न्याय० १.१.३१। पृ० २०. पं० २९. 'योगजधर्म' - " आत्मनि आत्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् ।" वैशे० ९.१.११ । "योगजधर्मानुग्रहः आत्ममनसोः सन्निकर्षे विशेषः । वैशे • उप० ९.१.११4 पृ० २१. पं० ७. "केवलम् ' - - विशेषा० गा० ८४ । पृ० २१. पं० १८. 'रागाद्यावरणापाये' - सन्मति पृ० ५१. पं० ३६ - पृ० ६० १० २२ । पृ० २१. पं० २६: 'बार्हस्पत्यास्तु' - प्रमाणवा० १.१५० - १५९ । तत्त्वसं ० का ० १९६०,१९६१ । पृ० २२. पं० ३. 'अभ्यास' – तत्त्वसं० का॰ १९४८,१९५० । पृ० २२. पं० ४. एतेन शुक्रोपचय' - पृ० २२. पं० १०. 'पृथिव्यम्बुभूयस्त्वे' - प्रमाणवा० १.१६०, १६१ । नन्दी ० म० पृ० ३४ ॥ पृ० २२. पं० १४. 'नैरात्म्यादि' - Jain Education International - तत्त्वसं० पं० पृ० ५२८ । नन्दी० म० पृ० ३३ । "शून्यतावासनांधानाद्धीयते भाववासना । किंचिन्नास्तीति चाभ्यासात् सापि पश्चात्प्रहीयते ॥ ३३ ॥ यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते तदा निराश्रयोऽभावः कथं तिष्ठन्मतेः पुरः ॥ ३४ ॥ For Private & Personal Use Only 5 20 25 30 www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy