________________
पृ० ७. पं० २१.]
टिप्पणानि ।
एवमुदिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति
स्यादेतत्-अस्तु तृतीयविकल्पे प्राणातिपातः, संपूर्णलक्षणत्वात् । मार्यमाणः प्राणी यदि भवति, हन्तु प्राणीति यदि विज्ञानं जातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् सर्वं चैतदुपपन्नं तृतीये । द्वितीयविकल्पे तु नास्त्येतत् समस्तम् अतः कथं तत्र हिंसकत्वम् ? । एतदेव च प्राणातिपातलक्षणमपरं स्पष्टतरं प्रपञ्चितम् --
८५
“प्राणातिपातः संचिन्त्य परस्याभ्रान्तमारणम् ।" [ अभिध० ४.७३ ] इति द्विविधं मारणं संचिन्त्यासंचिन्त्य च । संचिन्त्यापि द्विविधम् - भ्रान्तस्याभ्रान्तस्य
१. “संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमिवेति । न भ्रान्त्याऽन्यं मारयति इत्यर्थः । क्षणिकेषु स्कन्धेष्वति । स्वरसेनैव विनश्वराणां स्कन्धानां कथं अन्येनैषां निरोधः क्रियत इत्यभिप्रायः । प्राणो नाम वायुः । कायचित्तसंनिश्रितो वर्तत इति । कथं चित्तसंनिश्रितो वायुः प्रवर्तते । चित्तप्रतिबद्धवृत्तित्वात् । तथाहि -निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते । शास्त्रेप्युक्तम् - " य इमे आश्वासप्रश्वासाः किं ते कायसंनिश्चिता वर्तन्त इति वक्तव्यम् ?, चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ?, नैव कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ?, कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ? । आह - कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् इति विस्तरः ।" तमपि पातयतीति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य खरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोधयतीत्युच्यते । यथा प्रदीपं निरोधयति, घण्टाखनं वा । क्षणिकमपि सन्तम् कथं च स निरोधयति । अनागतस्योत्पत्तिप्रतिबन्धात् । जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावं एनं दर्शयति ।
कस्य तजीवितम् ? । यस्तदभावान्मृत इति । यः प्राणी जीवितस्याभावान्मृतो भवति । स बौद्धानां नास्ति नैरात्म्यवादिलात् । अत एवं पृच्छति । कस्येति षष्ठीम् । पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे । असत्यात्मनि कस्येयं स्मृतिः । किमर्थैषा षष्ठीत्यत्र प्रदेशे चिन्तयिष्यामि । आस्तां तावदेतत् सामान्यासिकम् इत्यभिप्रायः । तस्मात् सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितम् । नात्मन इति दर्शयति । स एव चानिन्द्रियो मृत इति ।
अबुद्धिपूर्वादिति विस्तरः । असंचिन्त्यकृताद् अपि प्राणातिपातात् कर्तुरधर्मों यथा अग्निसंस्पर्शादबुद्धिपूर्वात् असंचिन्त्यकृताद् दाह इति निर्ग्रन्था नग्नाटकाः । तेषां निर्ग्रन्थानामेवंवादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंग: । पापप्रसंग इत्यर्थः । अग्निदृष्टान्तात् । निर्ग्रन्थशिरोलोचने च । निर्मन्थशिरः केशोत्पाटने च दुःखोत्पादनबुद्ध्यभावेऽप्यधर्मप्रसंगः। अग्निदाहवत् । कष्टतपोदेशने च । निर्ग्रन्थशाखरधर्मप्रसंगो बुद्ध्यनपेक्षायाम् । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च । निर्ग्रन्थानां विषूचिकया अजीरणेन म । दातुः - अन्नदातुः । अधर्मप्रसङ्गः । अन्नदानेन मरणकारणात् । अबुद्धिपूर्वोऽपि हि प्राणिवधः कारणमधर्मस्येति । मातृगर्भस्थयोश्च । मातुर्गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वात् अधर्मप्रसङ्गः । तत एवाभिदृष्टान्तात् । वध्यस्यापि च तत्क्रियासंबन्धात् । प्राणातिपातक्रियासंबन्धात् । अधर्म प्रसङ्गः । वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति । अग्निखाश्रयदाहवत् । अग्निर्हि न केवलमन्यजनं दहति । किं तर्हि ? । स्वाश्रयमपि इन्धनं दहतीति । तद्वत् । न हि तेषां चेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः । परेणाग्निं स्पर्शयतः स्पर्शयितुस्तेनादाहवत् । आग्नेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनाम् । काष्ठलेोष्टवंशादीनाम् । गृहपाते तत्रान्तःस्थितानां प्राणिनां वधात् । पापप्रसङ्गः । नहि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टान्तमात्रादहेतुकात् सिद्धिरस्यार्थस्येति ।" स्फुटार्था० पृ० ४०४ पं० ३१ ।
" अन्यत्र संज्ञाविभ्रमादिति । यदि देवदत्तद्रव्यं हरामीत्यभिप्रायमाणों यज्ञदत्तद्रव्यं हरति नादत्तादानमिति अभिप्रायः । ” – स्फुटार्था० पृ० ४०६. पं० ५ ।
“प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यज्ञदत्तं मारयतो न प्राणातिपातो भवति तद्वत् । इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतोऽन्यच्च वस्तु परिभुक्तमिति न स्यात् काममिथ्याचार इत्यपरे ।” स्फुटार्थाο पृ० ४०६. पं० १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org