________________
10
" आयुरूष्माथ विज्ञानं यदा कायाद् व्रजन्त्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ||" इति ।
आर्हताः पुनरबुद्धिपूर्वकमसंचिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो यथाऽग्निस्पर्शाद् दाहः । तेषां चैवमभ्युपयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः । साधुशिरोलुचने कष्टतपोदेशने च शास्तुः क्रुद्धस्येवाधर्म॥ प्रसङ्गः । विषूचिकामरणे वान्नदायिनः प्राणवधः । मातृगर्भस्थ योश्चान्योन्यदुःखनिमित्तत्वात् पापयोगः । वध्यस्यापि च वधक्रियासंबन्धात् अग्निना स्वाश्रयदाहवद्धर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न हि अग्निमन्येन स्पर्शयन प्रयोजयिता दाते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसंभवान्नाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति ।
८६
ज्ञान बिन्दुप्रकरणस्य
[ पृ० ७. पं० २१च । अभ्रान्तस्यापि द्विविधम् - आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवति - यदि 'मारयिष्यामि एनम्' इति संज्ञाय परं मारयति, तमेव मारयति नान्यं भ्रमित्वा । इयता प्राणातिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति सोपि अवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्तु इति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्चासंचिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राणश्च वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् तमति - पातयति विनाशयति जातस्य स्वरससन्निरोधादनागतस्योत्पत्तिं प्रतिबध्नातीति । जीविते - न्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते । न त्वन्यस्य, आत्मनोऽभावात् । न ह्यात्मनः किञ्चित् प्रतिपादकं प्रमाणमस्ति । अन्यस्त्वाह
अत्रोच्यते जैनैः - प्राणातिपाताद्यवद्येन प्रमत्त एव युज्यते । प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीयकर्माशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाचात्मनः परिणामविशेषाः प्राणातिपाताद्यवद्यहेतवः सर्वै25 र्मोक्षवादिभिरविगानेनाभ्युपेयन्ते । सिद्धान्तविहितविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः अनिवृत्तिरात्मनः परिणतिविशेषः साऽपि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यजन्ते भावतः तावदपि भल्लितोमरकर्णिकाधनुर्जी वा स्नायुशरवाजकी च कशलाकाद्याकारेण परिणतानि प्राणिनां परिताप30 मवद्रावणं वा विद्धति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके - यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः । न चानयैव युक्त्यावद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेव
१ भगवती० श० ५. उ० ६ । श० १६. उ० १ ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org