________________
८४
ज्ञानबिन्दुप्रकरणस्य
[पृ० ७. पं० २१सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ । पिहिआसवस्स दंतस्स पावकम्मं न बंधइ ॥९॥" दश० अ० ४ । "सव्वे जीवा वि इच्छन्ति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गन्था वजयंति णं ॥११॥" दश० अ० ५। "हिंसाए पडिवक्खो होइ अहिंसा चउव्विहा सा उ ।
दव्वे भावे अ तहा अहिंसजीवाइवाओत्ति ॥" दश. नि. गा० ४५ । "तत्रायं भङ्गकभावार्थः - द्रव्यतो भावतश्च इति -- जहा केइ पुरिसे मिअवहपरिणामपरिणए मिअं पासित्ता आयनाइड्डियकोदंडजीवे सरं णिसिरिज्जा, से अमिए तेण सरेण विद्धे
मए सिया, एसा दव्वओ हिंसा भावओ वि । या पुनर्रव्यतो न भावतः सा खलु ईर्यादि10 समितस्य साधोः कारणे गच्छत इति - उक्तं च-उच्चालिअम्मि......"इत्यादि । या पुनर्भावतो न द्रव्यतः सेयम् - जहा केवि पुरिसे मंदमंदपगासप्पदेसे संठियं ईसिवलियकायं रज्जु पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकड्डियासिपत्ते दुअं दुअं छिंदिज्जा, एसा भावओ हिंसा न दवओ। चरमभंगस्तु शून्य इति एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति ॥” दशवै० हा.पृ. २४ । भगवती० १.८ । ३.३ । ५.६ । ७.२,१०। ८.४ । १८.३,८ । दश० चू० पृ. २० । पृ. १४४ ।
"मरदु वो जीयदु जीवो अयदाचारस्स णिच्छिदा हिंसा ।
पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥" प्रवच० ३.१७ । "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" -- तत्त्वार्थः ७.८। “प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा"- तत्त्वा० भा० ७.८।
"प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो 20 दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमव
श्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचित् द्रव्यतः प्राणातिपातः न भावतः । स्वपरिणामनिमित्ते च हिंसाहिंसे । परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु किञ्चिन्निमित्तमाश्रित्य कारणीभवति हिंसायाः। स च द्रव्यतो व्यापन्नो न व्यापन्न इति नातीवोपयोगिनी चिन्ता । 25 तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः
काश्चिद्धा क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुं असमर्थः पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । 30 कदाचित् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वात् अकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतहढायुष्यकर्मशेषादपमृतो मृगः पुरुषाकाराच्च,
चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुॐ प्राणकलापस्य भावतो द्रव्यतश्व हिंसा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org